संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४६

खण्डः ३ - अध्यायः १४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
वासुदेवस्य गरुडस्तालः सङ्कर्षणस्य च ॥१॥
प्रद्युम्नस्य तथा चिह्नं मकरो व्यादिताननः॥
देवोऽनिरुद्धो धर्मज्ञ ऋष्यकेतुः प्रकीर्ततः ॥२॥
पीतं नीलं तथा श्वेतं रक्तं च यदुनन्दन॥
तेषां तु कथितं वासः पताका तादृगिष्यते ॥३॥
यस्य देवस्य यच्चिह्नं स चात्मा नाम कीर्तितः॥
पताका यादृशी यस्य वसनं तस्य तादृशम् ॥४॥    
चैत्रे तु प्रत्यहं मासि गरुडं पूजयेन्नरः॥
पीतेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः ॥५॥
वैशाखे च तथा मासि तालं संपूजयेत्सदा॥
नीलेन गंधनैवेद्यमाल्यवस्त्रादिना द्विजः ॥६॥
ऋष्यं संपूजयेद्देवं मास्याषाढे यथाविधि॥
रक्तेन गन्धनैवेद्यमाल्यवस्त्रादिना द्विजः ॥७ ॥।
बहिः स्नानं तथा कुर्याद्वह्निसंपूजनं ततः॥
नित्यं च कुर्याद्धर्मज्ञ तथा ब्राह्मणतर्पणम् ॥८॥
प्राणयात्रा तथा कुर्यादुक्तं तैलविवर्जितम्॥
अधःशायी तथा च स्याद् ब्रह्मचारी तथा भवेत् ॥९॥
व्रतमेत्तथा कुर्यान्नित्यं मासचतुष्टयम्॥
ब्राह्मणान्पूजयेच्छक्त्या चाषाढचरमेहनि ॥१०॥
वस्त्राण्यर्थानि धर्मज्ञ दद्याद्विप्रेषु दक्षिणाम्॥
कृत्वैकं पारणं राजन्स्वर्गलोके महीयते ॥११॥
द्वितीयं पारणं कृत्वा शक्रलोके महीयते॥
तृतीयं पारणं कृत्वा ब्रह्मलोके महीयते ॥१२॥
कृत्वा पारणषट्कं तु रुद्रलोके महीयते॥
विष्णुलोकमवाप्नोति कृत्वा द्वादशपारणम् ॥१३॥
ध्वजव्रतं द्वादशवत्सराणि कृत्वा नरो भार्गववंशमुख्य॥
सायुज्यमायाति जनार्दनस्य देवस्य विष्णोः परमेश्वरस्य ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे ध्वजव्रतवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP