संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९४

खण्डः ३ - अध्यायः ०९४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
शुभां परीक्ष्य वसुधां तत्र कुर्यात्सुरालयम॥
आदौ तां शोधयेद्विद्वान्दिवसे गुणसंयुते ॥१॥
तत्र देशं शुभं विद्वान्गोमयेनोपलेपयेत॥
ततः सम्पूजयेत्तत्र देवदेवं विनायकम् ॥४॥
तथा च विश्वकर्माणं भाण्डं तदुपयोगि च॥
पललोल्लपिका भक्ष्यकुल्माषौदनपर्पटैः ॥३॥
परमान्नेन सत्यैश्च पुष्पधूपानुलेपनैः॥
पूजयित्वा च दैवज्ञं सात्त्वतं स्थपतिं तथा ॥४॥
भुवः संशोधनं कुर्याद्यथावत्पृथिवीपतिः॥
तावत्संशोधयेद्भूमिं निजां यावत्प्रदृश्यते ॥५॥
तदा संशोधयेद्विद्वान्यावत्स्याच्छल्यवर्जिता॥
ततस्तु पूरयेत्पश्चाद्दृढं मृत्तिकया पुनः ॥६॥
तद्वर्णया तया शस्ता यस्य वर्णस्य कीर्तिता॥
अशल्यया मृत्तिकया पूरयेत्सुदृढं पुनः ॥७॥
कृत्वा तु पूरितं देशं सुदृढं सुसमन्ततः॥
सुसूक्ष्मशल्यज्ञानार्थं कुर्याच्छल्यपरीक्षणम् ॥८॥
यथा वक्ष्याम्यहं राजंस्तथा यत्नेन बुद्धिमान्॥
यदि स्याच्छल्यसंयुक्ता शल्यमुद्धृत्य यत्नतः ॥९॥
पुनः सम्पूरयेद्विद्वान्यत्नाच्छुभमृदा नृप॥
एवं संशोध्य भूमिं तु कुम्भं संस्थापयेत्ततः ॥१०॥
शिलान्यासं तु कुर्वीत तत्रैवाऽह्नि चतुर्दिशम्॥
पक्वेष्टारचिते कार्यास्ता एव तु चतुर्दिशम् ॥११॥
मृन्मये चेष्टकान्यासं कर्तव्यं न च दारुणे॥
शुभे दिवसनक्षत्रे मुहूर्ते चाभिपूजिते ॥१२॥
कुम्भाकारां शिलां कुर्याच्छैलदेवगृहे शुभम्॥
अन्यत्र ताम्रकलशं सुदृढं यत्र संयुतम् ॥१३॥
चतुःषष्टिपदं कृत्वा समे स्थाने तु मण्डलम्॥
कृत्वा तु देवतान्यासं तत्र मण्डलके द्विज ॥१४॥
सर्वेषां वास्तुविद्योक्ता देवतानां यथाविधि॥
श्रियाः सम्पूजनं कृत्वा वासुदेवस्य चाप्यथ ॥१५॥
पूजनं मण्डले कार्ये वास्तुदेवगणस्य च॥
विनायकस्य देवस्य विश्वकर्मण एव च ॥१६॥
भाण्डानां च महाराज तथा तदुपयोगिनाम्॥
गन्धार्घपुष्पनैवेद्यधूपदीपैर्यथाविधि ॥१७॥
ॐकारपूतमाज्यं च जुहुयाच्छ्रीधरस्य च॥
श्रियाः कृत्वा ततो होमं ब्रह्मणः कारयेत्तदा ॥१८॥
ब्रह्माणं पुरतः कृत्वा वासुदेवगणस्य च॥
मध्ये कृत्वा ततः कुम्भं शिलान्यासं तु कारयेत ॥१९॥
ऐशाने तु ततः कोणे शिलां पूर्वं प्रतिष्ठिताम्॥
प्रदक्षिणं ततो राजञ्छिलान्यासं विधीयते ॥२०॥
सूत्रन्यासं तु कुर्वीत तस्मिन्नेव तथाहनि॥
यथानिवेशं कर्तव्यं प्रासादस्य सुनिश्चितम् ॥२१॥
कृत्वा तु सूत्रविन्यासं नाधिकं तं तु कारयेत्॥
नूनं मनुजशार्दूल कर्तुर्दोषकरावुभौ ॥२२॥
कुम्भस्य च शिलानां च ततः स्थानं विधीयते॥
वटाश्वत्थकषायेण सर्वौषधिजलैस्ततः ॥२३॥
ततोऽनुलेपनं कुर्याच्चन्दनेन सुगन्धिना॥
आच्छादनं ततः कार्यं वासोभिः कुसुमैस्तथा ॥२४॥
धूपं दीपं सुनैवेद्यं तेषां नाम्ना निवेदयेत्॥
दक्षिणाभिर्द्विजेन्द्राणां ततः पूजा विधीयते ॥२५॥
कालवित्स्थपतिः पूज्यो ततो राम विजानता॥
ततः कर्ता जपेन्मन्त्रं स्थपतिं वाथ कालवित् ॥२६॥
नन्दे नन्दय वासिष्ठे वसुभिः पूजया सह॥
जये भार्गवदायादे प्रजाभ्यो जयमावह ॥२७॥
पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम्॥
भद्रे कश्यपदायादे कुरु भद्रां गतिं मम ॥२८॥
सर्वबीजसमायुक्ते सर्वरत्नौषधैर्वृते॥
रुचिरे नन्दिते नन्दे वासिष्ठे रम्यतामिह ॥२९॥
प्रजापतिसुते देवि चतुरस्रे महीमयि॥
सुभगे सुव्रते भद्रे इह काश्यपि रम्यताम् ॥३०॥
अव्यङ्गे चाक्षते पूर्णे मुनेरंगिरसः सुते॥
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कामयाम्यहम् ॥३१॥
देशस्वामिपुरस्वामिपशुस्वामिपरिग्रहे॥
मनुष्यपशुहस्त्यश्वधन वृद्धिकरी भव ॥३२॥
अनेनैव विधानेन कार्या भूमिः समीक्षया॥
द्वारन्यासं महाराज द्वारोच्छ्रायस्तथैव च ॥३३॥
स्तम्भोच्छ्रायं तथा वंशविन्यासं च यदूत्तम॥
तथामलकसारस्य चिह्नस्य तु समुच्छ्रयम् ॥३४॥
आयुधं वाहनं चिह्नं यस्य देवस्य यद्भवेत्॥
तस्मादेकतमं चिह्नं कार्यं चामलसारके ॥३५॥
सुधासिते समाप्ते तु चित्रकर्म विधीयते॥
कटिः सुचित्रिता कार्या पृष्ठं कार्यं सुधासितम् ॥३६॥
चित्रलक्षणवत्कार्यं सर्वकामसमृद्धिदम्॥
आश्चर्याणि तथान्यानि तत्र यत्नान्निवेशयेत ॥३७॥
चिह्नं विष्णुगृहे तत्र गरुडं वापि कारयेत॥
दुर्गागृहे तथा सिंहं त्रिशूलं हरवेश्मनि ॥३८॥
पद्मं लक्ष्मीगृहे चिह्नं हंसं स्याद्ब्रह्मणो गृहे॥
मकरं कामदेवस्य तालं सङ्कर्षणस्य तु ॥३९॥
अर्धचन्द्रस्थितं सिंहमादित्यस्य गृहे भवेत्॥
वृत्तमण्डलमध्यस्थं मृगं चन्द्रसमो भवेत् ॥४०॥
वज्रं शक्रस्य कुर्वीत दण्डं वैवस्वतस्य च॥
वरुणस्य तथा पाशं गदां च धनदस्य वै ॥४१॥
स्कन्दस्य शक्तिः कर्तव्या गणाध्यक्षस्य पार्थिव॥
कर्तव्यं परशोश्चिह्नं वह्नेर्ज्वाला विधीयते ॥४२॥
वायोरम्बरभङ्गन्तु उष्ट्रं निर्ऋतये तथा॥
अन्येषामपि देवानां चिह्नं स्यादायुधं स्वकम् ॥४३॥
ततो ध्वजस्य विन्यासः कर्तव्यः पृथिवीपते॥
असुरा वासमिच्छन्ति ध्वजहीने सुरालये ॥४४॥
ध्वजेन सकलं पापं ध्वजदस्य विनश्यति॥
तस्मात्सर्वप्रयत्नेन दद्याद्देवगृहे ध्वजम् ॥४५॥
एवं कृते देवगृहे नरेन्द्र वृद्धिः सदा स्यान्न हि संशयोऽत्र॥
तस्मात्प्रयत्नेन विधानयुक्तं देवालयं कार्यमदीनसत्त्व ॥४६॥
इति श्रीवि० ध० तृ० ख० मा० व० सं० ब्रह्मशिल्पध्वजविधिर्नाम चतुर्णवतितमोऽध्यायः ॥९४॥
वास्तुपुरुष
वास्तुपुरुषः

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP