संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३६

खण्डः ३ - अध्यायः ३३६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
पाषण्डनैगमश्रेणी पूर्वाव्रतगणादिषु॥
संरक्षेत्समये राजा दुर्गे जनपदे तथा ॥१॥
यो धर्मः कारयेच्चैषां चोपस्थान विधिश्च यः॥
यश्चैषां वृत्त्युपादानं चानुमन्येत तत्तथा ॥२॥
प्रतिकूलं तु यद्राज्ञः प्रकृत्यवसतं च यत्॥
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् ॥३॥
मिथः संघातकरणं त्विह ते शस्त्रधारणम्॥
परस्परोपघातं च तेषां राजा न मर्षयेत् ॥४॥
पृथग्गणांश्च यो भिन्द्यात्ते विनेया विशेषतः॥
आवहेयुर्भयं घोरं व्याधिं वा ते ह्यपेक्षिताः ॥५॥
दोषवत्करणं यत्स्यादनाम्नायं प्रकल्पितम्॥
प्रवृत्तमपि तद्राजा श्रेयःकामो निवर्तयेत् ॥६॥
गणमुद्दिश्य यत्किञ्चिन्मध्यश्चैव समुद्धरेत्॥
आत्मार्थे वा नियुक्तं वा देयं तैरेव तद्भवेत् ॥७॥
यस्यापृथग्भूतकृतं द्विजेन्द्राः क्षितीशकृत्येन कृतं च यद्वा॥
भृत्ये कृतं ज्ञेयमृणं भवेद्धि समोक्तिभिस्तत्त्वविदो वदन्ति ॥८॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु श्रेणिविभागवर्णनो नाम षट्त्रिंशदधिकत्रिशततमोऽध्यायः ॥३३६॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP