संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४३

खण्डः ३ - अध्यायः १४३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
चतुरात्मा हरिः प्रोक्तश्चत्वारस्तु हुताशनाः ॥१॥
आहिताग्निर्द्विजो यस्य विद्यतेऽग्निचतुष्टयम्॥
सोपवासश्चतुर्थ्यां तु शुक्लपक्षस्य फाल्गुने ॥२॥
अभ्यर्च्य चतुरात्मानं वासुदेवमतन्द्रितः॥
तस्मै दद्याद्द्विजेन्द्राय तिलप्रस्थानि षोडश ॥३॥
सुवर्णस्य सुवर्णं च वस्त्रं घृततुलामपि॥
एवं संवत्सरं कृत्वा व्रतमेतदतन्द्रितः ॥४॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति ॥५॥
मानुषो दीप्ततेजाः स्याद्दीप्ताग्निः प्रमदाप्रियः॥
रिपूञ्जयति संग्रामे धनवांश्च तथा भवेत् ॥६॥
ये त्वग्नयो वै चतुरः प्रदिष्टाः स वासुदेवः कथितश्चतुर्धा॥
यः पूजयेद्ब्राह्मणमाहिताऽग्निं देवः स तेनाप्यथ पूजितः स्यात् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तमचतुर्मूर्तिकल्पे अग्निव्रतवर्णनो नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४३॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP