संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६१

खण्डः ३ - अध्यायः २६१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
यशसा संयुतो जन्तुः श्रेयसो भाजनं भवेत्॥
यशसा संयुतो जन्तुस्त्रिदिवं प्रतिपद्यते ॥१॥
यशसा संयुतो जन्तुः सम्पदामेति पात्रताम्॥
यशसा संयुतो जन्तुः सर्वकामानुपाश्नुते ॥२॥
स एकः पुरुषो लोके यशसा यो हि संयुतः॥
येषां साधु समावापं गीयते सुमहद्यशः ॥३॥
तेषां यशस्तथा पुण्यं नाकपृष्ठेऽपि गीयते॥
देवता यं विजानंति तस्य नाके गतिर्ध्रुवा ॥४॥
कीर्त्यमानं तथा सद्भिर्यः शृणोति यशः स्वकम्॥
सुखमाप्नोति धर्मज्ञाः स्वर्गादपि परं नरः ॥५॥
यशः शोभा मनुष्यस्य परमं तस्य मण्डनम्॥
यशसा वर्जितस्येह मण्डनं लाञ्छनं परम् ॥६॥
यशः प्रधानं पुरुषस्य लोके यशःप्रधानास्त्रिदिवं प्रयान्ति॥
लोकद्वये चापि यशोऽन्वितानां भवन्ति कामा मनसा त्वभीष्टाः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यशःप्रशंसावणर्नो नामैकषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६१॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP