संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३०४

खण्डः ३ - अध्यायः ३०४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
ब्रह्मदेयां तु यः कन्यां पुरुषस्य प्रयच्छति॥
सप्तातीतान्भविष्याँश्च स्वकुले सप्त मानवान् ॥१॥
तेन कन्याप्रदानेन तारयिष्यत्यसंशयम्॥
लोकमाप्नोति च तथा दक्षस्येह प्रजापतेः ॥२॥
दत्त्वा दैवेन विधिना कुलं त्रिपुरुषं नरः॥
समुद्धरति दुर्गेभ्यो दक्षलोकं च गच्छति ॥३॥
प्राजापत्येन विधिना दत्त्वात्मानं समुद्धरेत्॥
महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ॥४॥
भूकरीन्द्राश्वदानानि गोदानञ्च तथैव च॥
अन्तर्भवन्ति वै यस्मिन्किं दानमधिकं ततः ॥५॥
दत्त्वा तां वर्णहीनाय घोरे तमसि मज्जति॥
बहून्यब्दसहस्राणि तथैवाशुचिभुङ्नरः ॥६॥
समवर्णाय यो दद्यात्स तूक्तफलभाग्भवेत॥
दत्त्वा चाधिकवर्णाय द्विगुणां त्रिगुणां तथा ॥७॥
द्विजपुत्रमनाथं यः संस्कुर्याद्यश्च कर्मभिः॥
चूडोपनयनाद्यैश्च सोऽश्वमेधफलं लभेत् ॥८॥
अनाथां कन्यकां दत्त्वा सदृशे वाधिके वरे॥
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम् ॥९॥
विवाहे समनुप्राप्ते कृत्वौपकरणानि च॥
नाकलोकमवाप्नोति कर्मस्वन्येष्वपि द्विजाः ॥१०॥
वस्त्रं पत्रमलङ्कारं विवाहार्थं प्रयच्छति॥
महत्फलमवाप्नोति नाकलोके महीयते ॥११॥
कन्यया सह यद्दत्तं द्रविणं वह्निमूलके॥
सफलाद्द्विगुणं तस्य फलमुक्तं पुरातनैः ॥१२॥
कन्यादानादवाप्नोति दक्षलोकं नरोत्तमः॥
विष्णुपूजासमं पुण्यं तत्पत्युः पूजया भवेत् ॥१३॥
विमानमारुह्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम्॥
प्राप्नोति लोकांस्त्रिदशोत्तमानां कन्याप्रदो नात्र विचारणास्ति ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु कन्यादानफलनिरूपणो नाम चतुरधिकत्रिशततमोऽध्यायः ॥३०४॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP