संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७५

खण्डः ३ - अध्यायः ०७५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
व्योमरूपं समाचक्ष्व सर्वधर्मभृतां वर॥
व्योम्नि तु पूजिते पूजा कृता स्याज्जगतो भवेत् ॥१॥
मार्कण्डेय उवाच॥
चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज॥
ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत् ॥२॥
ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः॥
भद्रपीठमिदं प्रोक्तं व्योमभागं तृतीयकम् ॥३॥
सर्वेषां भद्रपीठानामेतल्लक्षणमुच्यते॥
सम्भवश्चतुरस्रं तु मध्यभागं प्रकीर्तितम् ॥४॥
भद्रपीठं ततो भागं तत्र पद्म निवेशयेत्॥
शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम्॥८५॥
पत्रेषु कल्पयेत्तत्र दिक्पालाँश्च यथादिशम्॥
भद्रपीठमधस्तात्तु पृथिवीं परिकल्पयेत् ॥६॥
अन्तरिक्षं तथा स्तम्भमूर्द्ध्वभागं ततो विदुः॥
तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्तमाः ॥७॥
सर्वदेवमयं व्योम कथितं ते महाभुज॥
तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात ॥८॥
व्योम्नः स्वरूपं कथितं मयैतद्व्योम्नस्तु पूजा करणात्समग्रम्॥
सम्पूजितं स्याज्जगदेकवीर चराचरं यादववंशमुख्य ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे व्योमरूपनिर्माणो नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP