संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१८

खण्डः ३ - अध्यायः ०१८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
अथ गीतलक्षणं भवति तस्य त्रीणि स्थानानि उरः कण्ठः शिरश्च, तेभ्यो मन्द्रमध्यतारोत्पत्तिः ।
त्रयो ग्रामाः । षड्जमध्यमगान्धाराः ।
सप्तस्वरा । षड्जर्षभ गान्धारमध्यमपञ्चमनिषादधैवताः
एकविंशतिमूर्च्छनाः सप्त सप्त प्रतिग्रामाश्रिताः ।
तद्यथासां नामानि सौवीरी हारिणाश्वा कलोपनता शुद्धमध्यमा मार्गी पौरवी ऋष्यका चेति॥
एताः सप्त मध्यमग्रामिण्यः उत्तरासंज्ञाः ।
प्राञ्चिनी उत्तरायता शुद्धषड्जमत्सरीकृता अश्वक्रान्ता उद्गता च एताः सप्त षड्जग्रामिकाः ।
आलापी कुन्तिमा श्रद्धा उत्तरा षड्जा पञ्चायता एताः सप्त गान्धारग्रामिकाः ।
अथैकोनपञ्चाशत्तानाः । अग्निष्टोमिकः अत्यग्निष्टोमिकः पौण्डरिकः आश्वमेधिकः राजसूयिकः वहुसुवर्णिकः गोसविकः महाव्रतिकः ब्रह्म तानः प्राजापत्यः नगाश्रयः यज्ञाश्रयः गोदानिकः हयक्रान्तः अजक्रान्तः विष्णुक्रान्तः अरण्यः मत्तकोकिलः उज्जीविकश्चेति एते विंशतिर्मध्यमग्रामिकाः ।
प्रस्वापनं पैशाचः जीवनः सावित्रः अर्धसावित्रः सर्वतोभद्रः सुवर्णः विष्णुः जिष्णुर्विष्णुवरः शारदः विजयः हंसः ज्येष्ठ इति एते चतुर्दशषड्जग्रामिकाः । तुम्बुरुप्रियः महालक्ष्मणः गन्धर्वानुमतः अलम्बुसप्रियः नारदप्रियः भीमसेनप्रियः वितानः मातङ्गः भार्गवप्रियः अभिरामः संश्राव्यः किन्नरप्रियः पुण्यः मनोहरः कल्याणकरश्चेति एते पञ्चदश गान्धारमाश्रिताः
एतच्चतुर्विधं स्वरपदलयावधानयोगात् ।
मूर्च्छनास्वादिमध्यान्ते वादिसंवाद्यन्त्यवादिसंज्ञास्तिस्रो वृत्तयः॥
पूर्वोक्ताश्च नवरसाः तत्र हास्यशृङ्गारयोर्मध्यमपञ्चमौ।
वीररौद्राद्भुतेषु षड्जपञ्चमौ । करुणे निषादगान्धारौ ।
बीभत्सभयानकयोर्धैवतम् ।
शान्ते मध्यमम् ।
तथा लयाः हास्यशृङ्गारयोर्मध्यमाः ।
बीभत्सभयानकयोर्विलम्बितः ।
वीररौद्राद्भुतेषु द्रुतः ।
चोक्षाप्रयोगः स्वरोराधने रूपकेषु प्रकरणानुगतः मन्युव्यपदेशेन ते भवन्ति॥
भवन्ति चात्र श्लोकाः॥
ग्रहांशस्तारमन्द्रे च न्यासोपन्यास एव च॥
अल्पत्वं च बहुत्वं च षाडवोडविते तथा॥
एवमेव बुधैर्ज्ञेया जातयो दशलक्षणाः॥
अलङ्काराश्च चत्वारो भवन्ति वसुधाधिप॥
प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च॥
प्रसन्नमध्यश्च तथा क्रमेणैवं विनिर्दिशेत्॥
अपरान्तकमुल्लोप्यं मन्द्रकः मकरी तथा॥
उवेणकं सरो बिन्दुमुत्तमं गीतकानि तु॥
ऋग्गाथा पाणिका दक्षविहिता ब्रह्मगीतिका॥
गीतमेतत्तदाभ्यासः कारणाच्चोक्षसंज्ञः॥
संक्षेपेण मया प्रोक्तं सुराराधन कारणात्॥
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्॥
देवस्यानुचरो भूत्वा तेनैव सह मोदते॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० गीतलक्षणो नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP