संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४६

खण्डः ३ - अध्यायः २४६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
क्रोध एकः परः शत्रुः क्रोध एको विनाशकृत्॥
क्रोधाभिभूतः पुरुषस्त्वात्मानमपि घातयेत् ॥१॥
अर्थानर्थौ न जानाति कार्याकार्यौ तथैव च॥
नरः क्रोधसमाविष्टो नान्यं मित्रमपि द्विजान् ॥२॥
गुरूनाक्षिपति क्रोधान्नैनं हि नमते जनः॥
अनर्थैः सह संसर्गस्तस्मात्क्रोधं विवर्जयेत् ॥३॥
क्रोधं मूलमनर्थानां द्वारं हि नरकस्य च॥
आपदामास्पदं घोरन्तं प्रयत्नेन वर्जयेत् ॥४॥
क्रोधेन विजितो यस्तु कथमन्यं स जेष्यति॥
क्रोधे जिते जितं विद्धि त्रैलोक्यं सचराचरम् ॥५॥
अनर्थकारिणं क्रोधं यदा तेजस्विता मता॥
क्रोधे दोषमतः कृत्वा जितः क्रोधो महात्मभिः ॥६॥
यज्ञश्च दानानि तपः पवित्रं तीर्थोपसेवा च तथैव वेदाः॥
क्रोधाभिभूतस्य भवन्ति मिथ्या नरस्य तस्मात्परिवर्जयेत्तम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रोधदोषवर्णनो नाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४६॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP