संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९५

खण्डः ३ - अध्यायः ०९५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


एवं वादिनं श्रीभगवन्तममलतपसमतियश सञ्चिरजीविनं श्रीमार्कण्डेयं राजा वज्रः पप्रच्छ ।
भगवन्नष्टशल्यज्ञानं कथं भवति तमुवाच श्रीभगवान्मार्कण्डेयः ।
कदाचित्कमपि महद्भूतं त्रैलोक्यनाशायार्थितमभवत् ।
तद्भूतं ससंभ्रमैस्त्रिदशैर्निगृह्य वेगेनाधोमुखं न्यस्तम्॥
तस्य चोत्थानभीता देवा अङ्गेषूपविष्टाः ।
तस्य पर्जन्याद्याः क्रमेण दक्षिणेऽङ्गभागे, व्युत्क्रमेण नागाद्या वामे, पर्जन्यहुताशनौ शिरसि, करग्रहौ वदने,दृशोश्च यज्ञकामौ, स्तनयोर्महेन्द्रादिती, श्रवणयोः रव्यदिती, उरःस्थले अंसयोश्च सत्यभृशान्तरिक्षपवनाः ।
भुजे चन्द्रभल्लाटमुख्या नागराजानः, द्वितीये भुजे सावित्रसवितारौ करौ रुद्रव्याधी द्वितीये करे, अर्यमा पृथिवीधरश्च करस्य कक्ष्ययोः, पुष्पवितथबहक्षताः पार्श्वे, शोषशोकयक्षाश्च द्वितीये पार्श्वे, हृदि ब्रह्मा, विवस्वान्मित्रश्च जठरे, जयेन्द्रौ मेढ्रे, वृषणयोश्च यमवरुणौ, स्फिजि वृषासुरौ, ऊर्वोः गन्धर्वपुष्पदन्तौ, जान्वोः मृगग्रीवौ जङ्घयोः पितृदौवारिकौ चरणयोः, एवमयमेशानी दिक् शिरः नैर्ऋती दिगादौ वास्तुपुरुषः॥
तत्र च यत्स्वाङ्गं स्पृशप्रष्टा प्रयच्छति तत्रैव वास्त्वङ्गे शल्यं विद्यात् ।
अथवा यत्रैवाङ्गे गृहपतेः भूयोभूयो रुग्भवति॥
अथ वास्तुदेवतामेकैकामुद्दिश्य घृतं जुहुयात् ।
यद्वाज्यं हूयमाने अग्निलक्षणमशरभं भवेत्तद्देवदेशे वा॥
अथैतद्देवताभागे सुखेन शल्यज्ञानमहं चतुष्षष्टिपदविभागेन वक्ष्यामि ।
तत्र बहिः पूर्वेणार्धपदेश्वरः ।
पर्जन्यः अध्यर्धपदेश्वरः, पर्जन्यः अध्यर्धपदेश्वरकरग्रहः महेन्द्ररविसत्यवृषाः यथाक्रमं द्विद्विग्रहेशाः; अन्तरिक्षोध्यर्धपदेशः ।
पवनोऽर्धपदेशश्च दक्षिणेन पुष्पोऽर्धपदेशः ।
वितथोऽध्यर्धपदेशः ।
गृहर्क्षतयवभृङ्गगन्धर्वा द्विपदेशाः कोशोऽध्यर्धपदेशः ।
शेषोऽर्धपदेशश्चात्र दिङ्नगराजेनार्धपदेशाः ।
मुख्योऽर्धपदेशः ।
भल्लाटचन्द्रादिदितयो द्विपदेशाः ।
रागोऽध्यर्धपदेशः ।
तदाशनोऽर्धपदेशश्च तदन्तरः पूर्वेणार्धपदनाथः ।
यक्षो द्विपदनाथोऽयं मा अर्धपदनाथः सावित्रो दक्षिणतोऽर्धपदनाथः सविता द्विपदनाथो मित्रः अर्धपदनाथो रुद्रः ।
उदगर्धपदनाथो व्याधिः ।
द्विपदनाथो महीश्वरः ।
अर्धपादनाथः कामः ।
मध्ये चतुष्पदेश्वरो ब्रह्मा एवं बहिर्द्वात्रिंशद्देवताः ।
अन्तस्त्रयोदश ।
एवं पञ्चचत्वारिंशत् ।
तत्र प्रश्नकाले ।
यस्य नाम श्रूयते रुतं वा तदस्ति विद्यात् पृच्छकवचनप्रथमाक्षराद्वा अकारादिवर्गे वाजिनराः श्वगोमायुमेषरासभाजम ।
वस्तुतो नवधा विभक्तस्य मध्ये वकारः अकनत एवं सग इत्येते क्रमेण प्राच्यादिषु वर्णाः ।
वर्णप्रथमश्रवणाद्वास्तुनि तद्दिशि शल्यम् ।
लग्नाच्छून्येषु केन्द्रेषु निःशल्यं दृढं भवति ।
पापयुक्तेषु सशल्यं च केन्द्रे राशिवशा दिग्भवति बलिनिग्रहे अस्थिशल्यम् ।
बलहीने शर्कराङ्गारकाष्ठतुषभस्मादि तत्र सर्वेष्वस्थिषु कर्तुर्मरणं भवति शर्करातुषकेशाङ्गारभस्मशल्येषु शोकानर्थव्याधिमरणचौरोपद्रवाः सशल्ये च देवतायतने देवतासन्निधानं न भवति ।
तस्मात्सर्वप्रयत्नेन निःशल्यं वास्तुदैवतायतनं कुर्यात् ।
देवतायतनदक्षिणे भागे देवताकोशभवनम् ।
तस्याग्नेये महानसम् ।
दक्षिणेन स्नानभवनम ।
नैऋते कुप्यगृहम् ॥
पश्चिमेन तोयगृहम ।
वायव्येन भाण्डगृहम् ।
उदक्प्रेक्ष्यागारम् ।
ऐशानेनेज्यागृहम् ।
प्राक्सर्वकर्मकारगृहमिति॥
एतान्यपि शल्यवर्जितानि कुर्यात् सर्वत्र द्रविणशल्येन वृद्धिर्भवति ।
तद्विज्ञानं भवति ।
भवति चात्र-
ऊर्द्ध्वस्थे केन्द्रगे सोम्यै शल्यं द्रविणसंज्ञितम्।
दिक्त्वत्राप्यवगन्तव्या केन्द्रराशिवशेन च ॥१॥
ऊष्मा प्रदृश्यते यत्र च्छत्राकारः क्षितौ क्वचित् ।
तत्र वित्तं विजानीयात्सुषिरं यदि भूतलम् ॥२॥
नीलाभिः श्वेतपक्ष्माभिर्मक्षिकाभिः समन्विता॥
दुर्गन्धा च तथा भूमिस्तत्राधस्ताद्धनं भवेत् ॥३॥
एकनालसमर्थे द्वे दृश्येते यत्र पुष्करे ॥
भूयोभूयश्च तत्राधः कथयन्ति धनं बहु ॥४॥
अक्षीरा क्षीरिणो वृक्षास्तन्तुभिर्यदि वेष्टिताः॥
अकण्टकाः कण्टकिनस्तत्रापि द्रविणं वदेत् ॥५॥
द्रुमे भवति वंदाकं यत्र चान्यं नराधिप ॥
तत्रापि द्रविणं वाच्यं श्वेतं यत्र च किंशुकम् ॥६॥
हिमाम्भसी न ध्रियते न प्ररोहन्ति पादपाः॥
अकाले पुप्पदा वृक्षास्तत्राधो धनमादिशेत ॥७॥
शाङ्गको मैथुनं यत्र भुजगश्चित्रमस्तकः॥
दृश्यते यत्र राजेन्द्र तत्राधो धनमादिशेत ॥८॥
इति श्रीवि० ध० तृ० मा० व० सं० प्रतिष्ठाकल्पशल्योद्धारो नाम पञ्चनवतितमोऽध्यायः॥९५॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP