संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६५

खण्डः ३ - अध्यायः १६५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम्॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ॥१॥
वसिष्ठं च महाभाग पूजयेद्दिवसक्रमात्॥
कालोद्भवैः फलैः पुष्पैर्गोरसैश्च पृथक्पृथक् ॥२॥
आचरेत्प्रत्यहं स्नानं बहिर्नक्ताशनो भवेत्॥
महाव्याहृतिभिर्होमं फलैर्मूलैः सगोरसैः ॥३॥
वारिधान्यश्च दातव्याः क्षीरपूर्णा द्विजातिषु॥
एवं संवत्सरं कृत्वा व्रतान्ते चाहिताग्नये ॥४॥
दद्यात्कृष्णाजिनं राजन्यथापूर्वं मयेरितम्॥
व्रतमेतन्नरः कृत्वा मोक्षोपायं च विन्दति ॥५॥
मोक्षोपायं समासाद्य मोक्षं प्राप्नोत्यसंशयम् ॥६॥
प्राप्नोति लोकं यदि वा मुनीनां देवस्य विष्णोर्यदि वेश्वरस्य॥
पितामहस्याप्रतिमस्य वापि व्रतेन चीर्णेन महानुभाव ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तर्षिव्रतवर्णनो नाम पञ्चषष्ट्युत्तरशततमोऽध्यायः ॥१६५॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP