संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९२

खण्डः ३ - अध्यायः ०९२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि वज्रलेपविधिं तव॥
बिन्दुकांश्च कपित्थांश्च आम्रान्संहृत्य यत्नतः ॥१॥
शाल्मलीनां तथा पुष्पं सल्लकीबीजमेव च॥
धनुषश्च तथा कल्कं वचां च मनुजेश्वर ॥२॥
एतेषां समवेतानां समानां मनुजोत्तम॥
तोयमष्टगुणं क्वाथमष्टभागा वशेषितम् ॥३॥
ततस्तत्र क्षिपेद्द्रव्यं शुणु तच्च समासतः॥
मल्लकीनां तु विन्यासं वत्सलस्य च गुग्गुलम् ॥४॥
भल्लातकानि बिल्वानि कुर्मुरुं सर्जमेव च॥
अतसीं वसुतप्तोऽयं वज्रलेपः प्रकीर्तितः ॥५॥
लाक्षां च कुन्दरुं चैव गृहधूमं तथैव च॥
कपित्थबिल्वमध्यानि तथा नागफलं नृप ॥६॥
बलां च मधुकं चैव किंजापं मदनं तथा॥
मञ्जिष्ठासल्लकं सर्जं वज्रलेपः प्रकीर्तितः ॥७॥
विषाणानि गवां राजन्महिषाणां तथैव च॥
अजानां च तथा चर्म माहिष्यं गव्यमेव च ॥८॥
रसबिंबकपित्थास्तु वज्रलेपः प्रकीर्तितः॥
अष्टौ भागास्तु नागस्य कांस्यभागद्वयं तथा ॥९॥
रीतिभागं च कथितो वज्रलेपस्तथैव च॥
सुधापक्वा ततः क्लिन्ना गव्यचर्मसमन्विता ॥१०॥
खररोमयुता राजन्वज्रलेपस्तथैव च॥
तेषामेकैकसंयुक्ताः कार्याः शैलगृहा नृप ॥११॥
पक्वेष्टकगताश्चैव स्थायिनो मनुजोत्तम॥
वज्रलेपयुता ह्येते भवन्त्यपि दृढास्तथा ॥१२॥
तिष्ठन्ति सुमहाराज संवत्सरशतान्यपि॥
सहस्राणि च धर्मज्ञ चायुतान्यर्बुदानि च ॥१३॥
सुधावर्णेन सर्वत्र लेपं दद्यात्तथा बहिः॥
ततश्च तां सुधां दद्याच्छोभार्थमरिमर्दन ॥१४॥
वज्रलेपविधानं तु प्रोक्तं सम्यक्तया तव॥
देवायतनमुख्येषु तथा च भवनेषु च ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वज्रलेपनिरूपणन्नाम द्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP