संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८३

खण्डः ३ - अध्यायः ०८३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
रूपेण केन कर्तव्यो विश्वरूपधरो हरिः॥
एतं मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥१॥
मार्कण्डेय उवाच॥
आदौ देवस्य कर्तव्याश्चत्वारो वै स्तवोन्मुखाः॥
तेषामुपरि कर्तव्यास्तथा माहेश्वराः पुनः ॥२॥
ईशानं वक्त्रहीनास्ते तथा प्रोक्ता मया पुरा॥
तेषामुपरि कर्तव्या मुख्या ब्राह्मी यथेरिता ॥३॥
ततश्चान्यमुखाः कार्यास्तिर्यगूर्ध्वे तथैव च॥
सर्वेषामपि देवानां तथान्यानपि कारयेत् ॥४॥
ये मुखाः सत्त्वजातानां नानारूपा विभागशः॥
यावन्तो दृष्टयः प्रोक्ताश्चित्रसूत्रे महात्मभिः ॥५॥
दर्शनीयास्तु ताः सर्वास्तस्य मूर्धसु भागशः॥
नानाविधानि सत्त्वानि मुखैरन्यैस्तथैव च ॥६॥
ग्रसमानः स कर्तव्यः सर्वैः सत्त्वभयङ्करैः॥
कार्याण्युद्धूयमानानि मुखाः केचन ते शुभाः ॥७॥
यथा शक्त्या च कर्तव्यास्तस्य देवस्य बाहवः॥
हस्तानि यानि दृष्टानि नृत्तशास्त्रे महात्मभिः ॥८॥
तानि सर्वाणि कार्याणि तस्य देवस्य बाहुषु॥
हस्ताः कार्यास्तथैवान्ये सर्वायुधविभूषणाः ॥९॥
यज्ञदण्डधराश्चान्ये शिल्पभाण्डधरास्तथा॥
कालभाण्डधराश्चान्ये वाद्यभाण्डधराः परे ॥ ॥१०॥
रूपमन्यत्प्रकर्तव्यं वैकुण्ठवदतोऽच्युते॥
तत्रापि गात्रगास्तस्य दर्शयेच्चित्रकर्मणा ॥११॥
त्रैलोक्यं सकलं राजन्यथाशास्त्रानुसारतः॥
दर्शनीयानि वर्णानि सर्वाण्येव महात्मनः ॥१२॥
बहुरूपस्य देवस्य वहुमस्तकगानि तु ॥१३॥
एवं हि शक्त्या जगतां प्रधानः समग्ररूपो भगवान्हि कार्यः॥
कार्त्स्न्येन रूपं पुरुषोत्तमस्य वक्तुं न शक्यं कुत एव कर्तुम् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विश्वरूपनिर्माणो नाम त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP