खण्डः ३ - अध्यायः ३१८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
ऋषय ऊचुः॥
व्रतं नक्षत्रसत्राख्यं सदानं कथयस्व नः॥
सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन ॥१॥
हंस उवाच॥
कृत्तिकासु महाभागाः पायसेन स सर्पिषा॥
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ॥२॥
रोहिण्यां प्रथितैर्मासैर्माषैरन्नेन सर्पिषा॥
पयोनुपानं दातव्यं चानृणार्थं द्विजातये ॥३॥
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते॥
गच्छेत मानुषाँल्लोकान्स्वर्गवासमनुत्तमम् ॥४॥
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः॥
नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान् ॥५॥
पूपान्पुनर्वसौ दत्त्वा तथैवान्नञ्च शोभनम्॥
यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥६॥
पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च॥
अनालोकेषु लोकेषु सोमवत्स विराजते ॥७॥
अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति॥
स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति ॥८॥
मघासु तिलपूर्णानि वर्णमानानि मानवः॥
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥९॥
फाल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः॥
भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति ॥१०॥
घृतक्षीरसमायुक्तं विधिवत्षाष्टिकौदनम्॥
उत्तराविषये दत्त्वा स्वगर्लोके महीयते ॥११॥
यद्यत्प्रदीयते दानं चोत्तराविषये नरैः॥
महाफलमतीतञ्च भवतीति विनिश्चयः ॥१२॥
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः॥
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥१३॥
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च मानवः॥
चरत्यप्सरसां लोके रमते नन्दने वने ॥१४॥
स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः॥
प्राप्नोति लोकान्स शुभानिहैव च महद्यशः ॥१५॥
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम्॥
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम् ॥१६॥
पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते॥
न च दुर्गाण्यवाप्नोति स्वगर्लोकं च गच्छति ॥१७॥
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति॥
नरकादींश्च स क्लेशान्न प्राप्नोतीति निश्चयः ॥१६॥
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः॥
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥१९॥
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्॥
ज्येष्ठायामृद्धिमिष्टाञ्च गतिमिष्टाञ्च गच्छति ॥२०॥
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः॥
स पितॄन्प्रीणयत्येव गतिमिष्टाञ्च गच्छति ॥२१॥
अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः॥
कुले वृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥२२॥
प्रदाय जायते प्रेत्य कुले स बहुगोकुले॥
उदकुम्भं ससर्पिष्कं प्रभूतं मधुफाणितम् ॥२३॥
दत्त्वोत्तरास्वाषाढासु सर्वाँल्लोकान्समश्नुते॥
दुग्धे त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् ॥२४॥
वर्म नित्यं मनीषिभ्यः स्वर्गलोके महीयते॥
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ॥२५॥
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान्॥
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ॥२६॥
वस्त्ररश्मिनवं सद्यः प्रेत्य राज्यं प्रपद्यते॥
गन्धाञ्छतभिषग्योगे दत्त्वा सागुरुचन्दनान् ॥२७॥
प्राप्नोत्यप्सरसः लोकान्प्रेत्य गन्धांश्च शाश्वतान्॥
पूर्वाभाद्रपदायोगे राजमाषान्प्रदाय च ॥२८॥
सर्वभक्ष्यफलोपेतं स वै प्रेत्य सुखी भवेत्॥
औरभ्रं तूत्तरायोगे यस्तु मांसं प्रयच्छति ॥२९॥
स पितॄन्प्रीणयत्येव प्रेत्य चानन्त्यमश्नुते॥
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ॥३०॥
स प्रेत्य कामानादाय दातारमुपतिष्ठते॥
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ॥३१॥
हस्त्यश्वरथसम्पन्नं वर्चस्वी जायते कुले॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै॥
गाः सुप्रसूताश्चाप्नोति नरः प्रेत्य यशस्तथा ॥३२॥
नक्षत्रसत्त्रं कथितं मयैतद्यथेष्टलोकाभिगमाय पुंसाम्॥
कृत्वा सकृन्नाकगतस्तु कल्पमास्ते मुखं देवपतिर्यथासौ ॥३३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नक्षत्रसत्रविधानं नामाष्टादशाधिकत्रिशततमोऽध्यायः ॥३१८॥
N/A
References : N/A
Last Updated : January 29, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP