संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५०

खण्डः ३ - अध्यायः ०५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
शक्रकीनाशवरुणधनदानां भृगूत्तम॥
सहेतुकं समाचक्ष्व रूपनिर्माणमच्युत ॥१॥
मार्कण्डेय उवाच॥
चतुर्दन्ते गजे शक्रः श्वेतः कार्यः सुरेश्वरः॥
वामोत्सङ्गगता कार्या रक्षमाणा तथा शची ॥२॥
नीलवस्त्रः सुवर्णाभः सर्वाभरणवाँन्तथा॥
तिर्यग्ललाटगेनाक्ष्णा कर्तव्यश्च विभूषितः ॥३॥
शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची॥
पद्माङ्कुशौ तु कर्तव्यौ शक्रदक्षिणहस्तयोः ॥४॥
वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम्॥
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ॥५॥
दक्षिणं पृष्ठविन्यस्तं देवनाथस्य कारयेत्॥
ब्रह्मणैव विनिर्दिष्टं तस्याभरणधारणम् ॥६॥
तेनैव तस्य कथितं तथा बाहुचतुष्टयम्॥
त्रिनेत्रता च तस्योक्ता देवदेवेन शम्भुना ॥७॥
रुक्माभवर्णता तस्य तेजसां धामकारणात्॥
यन्नीलं वसनं तस्य तदाकाशं प्रकीर्तितम् ॥८॥
आज्ञा तस्याङ्कुशो हस्ते सर्वभूतवशङ्गरी॥
पद्मस्थां सहपद्मेन विभूतिं भुवनाधिप ॥९॥
करेण धारयञ्छ्रीमान्मघवान्सुरसत्तमः॥
दुष्टसंशमनं क्रोधो वज्रः शक्रकरः स्मृतः ॥१०॥
वासुदेवः स्मृतः शक्रस्तेन लक्ष्मीः शची मता॥
तस्याः करे च सन्तानं ज्ञेया सन्तानमञ्जरी ॥११॥
अर्थस्त्वैरावणो ज्ञेयो दन्तास्तस्य तु कीर्तिताः॥
दैवमन्त्रप्रभूत्साहशक्तयस्तु महाबलाः ॥१२ ।
एतद्रूपं वासुदेवस्य शाक्रं तुभ्यं प्रोक्तं देवराजस्य राजन्॥
याम्यं रूपं तेऽधुनाहं ब्रवीमि यस्यायत्ते सुख दुःखे नराणाम् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसम्वादे शक्ररूपनिर्माणो नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP