संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९९

खण्डः ३ - अध्यायः ०९९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथ पञ्चगव्यानि।
तत्र कपिलाया गोक्षीरम्।
कृष्णायाश्च दधि ।
नीलायाश्च घृतम् ।
श्वेताया गोमयम् ।
ताम्रवर्णाया गोमूत्रम्।
गायत्र्या गोमूत्रं गृह्णीयात।
गन्धद्वारेति गोमयम्।
आप्यायस्वेति क्षीरम् ।
दधिक्राव्णेति दधि।
घृतवती भुवनानामिति घृतम्।
देवस्य त्वेति कुशोदकम्।
अघमर्षणेन संयोज्य गायत्रीमुदीरयेत् ।
ततस्तेन पञ्चगव्येन भवनमभ्युक्षयेत्॥
तोरणानि च अर्चाशौचार्थमवस्थापयेत्॥
बृहत्स्नपने तदेव स्यादन्यं वा कल्पयेत्॥
अथार्घ्यकल्पना ।
भवति तत्र राजते पात्रे शङ्खबिल्वपद्मोशीर दर्भमूल दूर्वाक्षीराक्षतसिद्धार्थकतण्डुलानुपकल्पयेत् ।
तीर्थोदकेन प्लावयेत ।
रथ अक्षेति मंत्रमुदीरयेत ।
द्रविणं पापमन्यः द्रुपदं पवित्रं शङ्खमणिं श्रीसूक्तं काण्डात्काण्डेति पवित्रं च ततः शुभे दृढे स्वर्चिते भाण्डे पाद्यं कुर्यात्॥
हिरण्यवर्णेत्यारभ्य ऋक्त्रयेण च पार्थिव॥
आपोहिष्ठेति तिसृभिः शन्नोदेवीति चाप्यथ ॥१॥
ब्रह्मशुक्रेन सूत्रेण पवित्रेण तथैव च॥
वाचको वाचयेत्तत्र तीर्थमाहात्म्यमुत्तमम् ॥२॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० व० सं० प्रतिष्ठाकल्पे पञ्चगव्यवणर्नोनामा नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP