संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०९७

खण्डः ३ - अध्यायः ०९७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्केन विधिना प्रतिष्ठा कृता भवति॥
मार्कण्डेय उवाच॥
अथ सुरप्रतिष्ठापने षोडशर्त्विजो भवन्ति॥
एतद्यथा दैववित्स्थपतिः कल्पकः वाचकः यजुर्वेदविदर्घबाहुः यजुर्वेदविद्देवहोता यजुर्वेदविद्देवद्रव्यरक्षिता ऋग्वेदविद्यजुर्वेदवित्सामवेदविदथर्ववेदविदिति चत्वारः कलशाधाराः चत्वारः सात्त्वताः तेषामेको मूर्तिधरः द्वितीयो देवकर्मवित्॥
तृतीयो मन्त्ररक्षिता चतुर्थो द्रव्यरक्षितेति ।
तत्र कलशाधाराणां शक्त्या सहायाः कर्तव्याः ।
सर्व एव ऋत्विजोऽव्यंगा अकपिला अकेकरा अनधिकाङ्गाः स्वशास्त्रपरिनिष्ठिताः श्लक्ष्णाः अपौनर्भवाश्चेति॥
ततः प्रशस्तेऽह्नि तैः सहायैः सुस्नातैः स्वनुलिप्ताङ्गैर्माल्यवद्भिर्हविष्याशिभिश्च अहतास्वरसंवीतैः पवित्रपाणिभिः सह दीक्षां यजमानो गृह्णीयात्॥
तस्य स्नातस्याहतवसनसंवीतस्य गोमयेनोपलिप्ते देशे ब्राह्मणाः स्वस्तिवाचनपूर्वकवचनेन कल्पकः सितसूत्रेण सितवस्त्रेण सिद्धार्थकवचान् बद्ध्वा दक्षिणपाणौ प्रतिसरं कङ्कणं बध्नीयात् ।
ततः प्रभृति यावत्प्रतिष्ठाकालं प्रतिष्ठाकालादुपरि च सप्तरात्रं तावन्मांस मद्यक्षाराब्रह्मचर्यक्रोधेर्ष्यामानानार्यत्ववर्जनीयानि भवन्ति॥
भवति चात्र॥
दीक्षादिनात्प्रभृत्येवं प्रतिष्ठा सप्तमे दिने॥
यावत्तावद्भवान्नित्यं यजमानः सुयन्त्रितः ॥१॥
ब्रह्मचारी हविष्याशी जितक्रोधो विमत्सरः॥
अधःशायी च राजेन्द्र नित्यस्नायी तथैव च ॥२॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे दीक्षाध्यायो नाम सप्तनवतितमो ऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP