संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२७

खण्डः ३ - अध्यायः १२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
आराधनं त्रिदेवस्य तस्य वक्ष्यामि यादव॥
विष्णोरमितवीर्यस्य द्वितीयमरिमर्दन ॥१॥
ब्राह्मी तु राजसी मूर्तिस्तस्य वर्गप्रवर्तिनी॥
सात्त्विकी वैष्णवी ज्ञेया संसारपरिपालिनी ॥२॥
तामसी च तथा रौद्री ज्ञेया संहारकारिणी॥
चैत्रशुक्लप्रतिपदि ब्रह्माणं पूजयेन्नरः ॥३॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
क्षीरं ब्राह्मैस्ततो मन्त्रैर्जुहुयाज्जातवेदसि ॥४॥
लोहभाण्डं द्विजे दद्यात्क्षीरपूर्णं सकाञ्चनम्॥
दध्ना च भोजनं कार्यं मध्यं प्राप्ते दिवाकरे ॥५॥
एकवस्त्रांचिते देशे तथा स्वप्यात्कुशास्तृते॥
ततश्चतुर्थे दिवसे कूपनादेयसारसैः॥
त्रिभिरेकगतैस्तोयैः सम्यक्स्नानं समाचरेत् ॥६॥
पूजयेत्पूर्तवत्सम्यक्पुरत्रितयमेव तत्॥
लोहत्रयं द्विजे दद्यात्समाल्यं नृप दक्षिणाम् ॥७॥
तृतीयेह्नि ततः पूजा कार्या रुद्रस्य पार्थिव॥
गन्धमाल्यनमस्कारधूप दीपैस्तथैव च॥
मानस्तोकेति मंत्रेण घृतहोमो विधीयते ॥८॥
सघृतं लोहपात्रं च सहिरण्यं सदक्षिणम्॥
तृतीये दिनभागे तु वाताहारं समाचरेत् ॥९॥
तथा त्रिमधुरं दद्याद्भोजनं तच्च भक्षयेत्॥
व्रतमेतन्नरः कृत्वा मासिमासि दिनत्रयम्॥
संवत्सरेण धर्मज्ञ गतिमिष्टामवाप्नुयात् ॥१०॥
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः॥
सौभाग्यरूपद्रविणोपपन्नः साक्षाच्छिवो लोकधुरन्धरः स्यात् ॥११॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे त्रिमूर्तिव्रतं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥१२७॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP