संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२३

खण्डः ३ - अध्यायः ०२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
वैष्णवं समपादं च वैशाखं मण्डलं तथा॥
प्रत्यालीढमथालीढं षट् पुसां स्थानकानि तु ॥१॥
स्वभावसंश्रितः पादस्त्र्यंशः पक्षगतोऽपरः॥
किञ्चिदञ्चितजंघश्च वैष्णवं स्थानमुच्यते ॥२॥
स्थाने नानेन कर्तव्ये संलापस्तु स्वभावतः॥
समपादं तु विज्ञेयं समैस्तालान्तरैः पदैः ॥३॥
स्वस्वभासौष्ठवोपेतं रुद्रब्रह्मादिदैवतम्॥
अनेन कार्यं स्थानेन विप्रमण्डलकारणम् ॥४॥
बलानां पक्षिणां चैव वरकौतुकमेव च॥
स्वस्थानं स्यन्दनस्थानां विमानस्थायिनामपि ॥५॥
लिङ्गस्थानां व्रतस्थानां स्थानमेतत्प्रयोजयेत्॥
द्वौ तालावर्धतालं च पादयोरंतरं भवेत् ॥६॥
अञ्चितं यत्र जंघे तु पदौ पक्षस्थितो तथा॥
वैशाखं नाम तत्स्थानं स्कन्दश्चैवात्र देवता ॥७॥
स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः॥
व्यायामो निर्गमश्चैव प्रवेशो धनुषस्तथा ॥८॥
अतः परं मण्डलं स्यात्त्रींस्तालान्तरमेव च॥
कटी जानुसमा यत्र पादौ पक्षस्थितौ यथा ॥९॥
धनुर्वज्रप्रहरणं मण्डलेन प्रयोजयेत्॥
वाहनं कुञ्जराणां तु नृत्ते चोद्वहनक्रिया ॥१०॥
आदौ च दक्षिणं पादं पञ्चतालं प्रसारयेत्॥
आलीढं नाम तत्स्थानं रुद्रकाल्यत्र दैवतम् ॥११॥
अनेन कार्या स्थानेन सर्वत्रोद्धरणक्रिया॥
रौद्रपादप्रचारस्तु संग्रामस्य निरूपणम् ॥१२॥
सिंहाद्यभिनयं चैव शक्तसन्धानमेव च॥
खड्गयुद्धे नियुद्धे च मण्डलभ्रमणे तथा ॥१३॥
उत्तरोत्तरसंजल्पे रोषामर्षसमुद्भवे॥
मल्लानां चैव संस्फोटे शत्रूणां च निरूपणे ॥१४॥
तथाभिद्रवणं चैव शास्त्राणां च विमोक्षणम्॥
अञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥१५॥
आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम्॥
प्रत्यालीढं तु विज्ञेयं स्थानं च नवदैवतम् ॥१६॥
आलीढेनोदितं शस्तं प्रत्यालीढं न मोचयेत्॥
अतः परं प्रवक्ष्यामि स्त्रीणां स्थानत्रयं नृप ॥१७॥
आयतं वावहित्थं च हयक्रान्तमथापि च॥
एकश्चानुयुतो यत्र पादौ विरचितः समः ॥१८॥
तालमात्रान्तरन्यस्तः त्र्यक्षः पक्षगतोऽपरः॥
प्रसन्नमाननमुरः समं यत्र समुन्नतम् ॥१९॥
लतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम्॥
रङ्गावतरणे ह्येतत्तथा पुष्पाञ्जलौ भवेत् ॥२०॥
पादो विरचितस्त्र्य ( श्र) स्रस्तदन्योपसृतः समः॥
पादास्तलान्तरन्यस्तास्त्रिकमीषत्समुन्नतम् ॥२१॥
अवहित्थं समाख्यातं स्थानमेतन्नरोत्तम॥
विलासलीलालावण्यशृङ्गारात्मनिरूपणे ॥२२॥
स्थानमेतत्प्रयोक्तव्यं वरमार्गावलोकने॥
समस्थितो यत्र पादस्त्वन्यः पादस्तलाचितः ॥२३॥
तालैरनियतैरेष स्थानको हि विधीयते॥
सूचीविद्धमविद्धं वा तदश्वक्रान्तमिष्यते ॥२४॥
शाखावलम्बस्तबकोच्चये च विघूर्णनेत्रासनसम्प्रलापे॥
स्वभावसंलापविधौ च कार्यं स्थानं त्विदं यादववंशमुख्य ॥२५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० उत्थितादिस्थानकवणर्नो नाम त्रयोविंशतितमोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP