संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५८

खण्डः ३ - अध्यायः २५८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
ब्रह्मचर्येऽभिसंयुक्तो द्विजः स्वर्गमुपाश्नुते॥
ब्रह्मचर्यं परं धाम ब्रह्मचर्यं परं तपः ॥१॥
ब्रह्मचर्यं परं यज्ञो ब्रह्मचर्यं परं यशः॥
ब्रह्मचर्येण संयुक्तः सर्वान्कामानवाप्नुयात् ॥२॥
अदैवं दैवतं कुर्याद्दैवतं चाप्यदैवतम्॥
कुर्याल्लोकाँस्तथैवान्यान्ब्रह्मचर्येण मानवः ॥३॥
कृतानपि तथा पूर्वान्क्षिप्रमेव प्रणाशयेत्॥
यथाभीष्टमवाप्नोनि ब्रह्मचर्येण मानवः ॥४॥
प्रजापतीनां या शक्तिः प्रजाः कर्तुं द्विजोत्तमाः॥
सा ज्ञेया ब्रह्मचर्येण ऋषीणामपि च द्विजाः ॥५॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्॥
दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥६॥
यो ब्रह्मचर्यान्न परिच्युतः स्यात्पुत्रेण हीनोऽपि दिवं स याति॥
परिच्युता ये तनयैर्विहीनास्तेषां न लोकेषु गतिः प्रदिष्टा ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ब्रह्मचर्यप्रशंसावर्णनो नामाष्टपञ्चाश दुत्तरद्विशततमोऽध्यायः ॥२५८॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP