संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२४

खण्डः ३ - अध्यायः ०२४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
शिरसः प्रथमं कर्म गदतो मे निबोध तत्॥
स्वभावादृजुनोर्वामक्षेपेणाकस्मिकं सकृत् ॥१॥
संज्ञोपदेशपृच्छासु स्वभावाभाषणे भवेत्॥
बहुशः कथितं यच्च तदा कम्पितमिष्यते ॥२॥
(रोषतर्जनतर्केषु प्रतिज्ञासु च दृश्यते॥
शिरसो रेचनं यत्तु शनैस्तद्युतमिष्यते ॥३॥)
विषादे विस्मये चैव प्रतिषेधे तदिष्यते॥
विधुतं नामतः प्रोक्तं तथा पार्श्वविकम्पनैः ॥४॥
शीतग्रस्ते ज्वरार्ते च मत्ते च त्वरिते भवेत्॥
मण्डलारम्भणे चैव भवेत्तु परिगर्हितम् ॥५॥
साधने विस्मये हर्षे लीलायां च तदिष्यते॥
सकृदुद्वाहितं चोर्ध्वं तदुद्वाहितमिष्यते ॥६॥
उच्छ्राये दर्शने गर्वे तत्तथोर्ध्वनिरीक्षणे॥
आक्षिप्तं सकृदेव स्यादवव्रतमधोगतम् ॥७॥
सन्देहालापसंज्ञासु तत्तथा वाहनादिषु॥
किञ्चित्पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् ॥८॥
मूर्च्छिते व्यथिते चैव सञ्चिते दुःखिते भवेत्॥
( उत्क्षिप्तबाहुशिखरं तथाचितशिरोधरम् ॥९॥
निकुञ्चितं च तद्गर्वे विलासे च प्रयोजयेत्॥
परावृत्तपरावृत्तं कार्यं पृष्ठनिरीक्षणे ॥१०॥)
उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः॥
आशु दिव्यार्थयोगे च कार्यं तच्च प्रयोक्तृभिः ॥११॥
अधोमुखस्थितं चापि बुधाः प्राहुरधोगतम्॥
लज्जायां च प्रमाणे च दुःखे तच्च प्रयोजयेत् ॥१२॥
सर्वतो लोलनाच्चैव परिलोलितमुच्यते॥
व्याधिते मूर्च्छिते मत्ते भवेत्तु परिलोलितम् ॥१३॥
एतत्तु शिरसः कर्म कथितं ते नराधिप॥
अञ्चितं रेचितं मुक्तं विवृतं चतुरं तथा ॥१४॥
प्रसारितं तथा स्तब्धं ग्रीवाकर्मणि निर्दिशेत्॥
अञ्चितं किञ्चिदेकांशं लोलनाद्रेचितं तु तत् ॥१५॥
रेचितं भ्रमणान्मुक्तं विवृतं चलितं च तत्॥
मधुरं चतुरं प्रोक्तमायतं स्यात्प्रसारितम् ॥१६॥
स्तब्धं स्तब्धं तथा प्रोक्तं शिरःकर्मानुगामि च॥
अञ्चितं स्याद्विलासादौ रेचितं मण्डलेक्षणे ॥१७॥
मुक्तं मूर्च्छादियोगेषु विवृत्तं ललितादिषु॥
सौम्यभावे तु चतुरं दृष्टौ कार्यं प्रसारितम् ॥१८॥
स्तब्धं शीतेऽथ वा व्याधावविकारि स्वभावतः॥
विबुद्धं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥१९॥
विवृत्तं च तथैवर्जुकर्मण्यस्य विनिर्दिशेत्॥
व्यावृत्तं स्याद्विबुद्धाख्यं निवृत्तं पिहितं भवेत् ॥२०॥
अवाङ्मुखमवाभुग्नं निभुग्नं चोर्ध्वगं तु तत्॥
भुग्नं स्यादानतं किञ्चिन्निवृत्तं विवृतं भवेत् ॥२१॥
ऋजुस्वभावसंस्थं च तयोः कर्माणि चक्षते॥
विरुद्धवारणे कार्यं मैवमित्येवमादिषु ॥२२॥
विनिवृत्तमसूयायामीर्ष्याकोपकृतेषु च॥
विभुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥२३॥
भुग्नं तु लज्जिते योज्यं यतीनां तु स्वभावतः॥
निवृत्तं वापि कर्तव्यं हास्यशोकभयादिषु ॥२४॥
ऋजुस्वभावसंस्थाने कर्तव्यं यदुनन्दन॥
आभुग्नमथ निर्भुग्नं तथा चैव प्रकंपितम् ॥२५॥
उद्वाहितं समं चैव पञ्चरोधः प्रकीर्तितम्॥
धार्यते यच्च निर्भुग्नं तदा भुग्नं प्रकीर्तितम् ॥२६॥
शस्त्रक्षते विघाते च हृद्रोगे च तदिष्यते॥
स्तब्धं च निम्नपृष्ठं च निर्भुग्नं नाम तत्स्मृतम् ॥२७॥
स्तम्भे सविस्मये माने विषादे च तथेष्यते॥
उरसस्तूर्ध्वविक्षेपः प्रकम्पितमिहोच्यते ॥२८॥
हसिते रुचिते कार्यं श्रमे व्याधिभये तथा॥
उद्वाहितं यदूर्ध्वं तु तदुद्वाहितमुच्यते ॥२९॥
ऊर्ध्वं निगमिते कार्यं जृम्भितेषु प्रयोगतः॥
चतुरस्रं समं नाम विज्ञेयं सौष्ठवेषु तत् ॥३०॥
समुन्नतं नतं चैव प्रसारितविवर्तिते॥
तथापसृतमेवं हि पार्श्वयोः कर्म पञ्चधा ॥३१॥
कटिपार्श्वभुजांसान्तैरुन्नतैः स्यात्ससुन्नतम्॥
कटी यत्र सुनिर्भुग्ना पार्श्वं तद्द्विनतं भवेत् ॥३२॥
प्रसारणादुभयतः पार्श्वयोः स्यात्प्रसारितम्॥
परिवर्तनात्त्रिकस्यापि विवर्तितमिहेष्यते ॥३३॥
अस्य चैवोपगमनाद्भवेदपसृतं पुनः॥
नतं त्वपसृते कार्यं चोन्नतं तूपसर्पिते ॥३४॥
प्रसारिते प्रहर्षादौ त्रासे चापसृते पुनः॥
विवर्तितं विवर्ते च कारणं पार्श्वमुच्यते ॥३५॥
क्षामं निम्नं च पूर्णं च संप्रोक्तमुदरं त्रिधा॥
क्षामं तु हसिते कार्यं तथा चैव विजृम्भिते ॥३६॥
व्याधिते तपसि श्रान्ते क्षुधार्ते निम्नमेव च॥
पूर्णं निःश्वसिते चैव ह्यारोग्ये ललितं तथा ॥३७॥
प्रकम्पिता च च्छिन्ना च निवृत्ता रेचिता तथा॥
उद्वाहिता चैव कटिर्नृत्ते पञ्चविधा स्मृता ॥३८॥
तिर्यग्गता गता क्षिप्रं विज्ञेया वप्रकम्पिता॥
मध्यस्थबलनाच्चैव च्छिन्ना संपरिकीर्तिता ॥३९॥
पराङ्मुखस्याभिमुखी निवृत्ता परिकीर्तिता॥
सर्वतोभ्रमणाच्चैव रेचितेत्यभिधीयते ॥४०॥
निश्चितोद्वाहनाच्चैव तथैवोद्वाहिता मता॥
नीच वामनकुब्जानां गतौ कार्या प्रकम्पिता ॥४१॥
व्यायामे त्वथ संप्राप्ते व्यावृत्तप्रेक्षितेषु च॥
छिन्ना कार्या कटिस्तज्ज्ञैर्निवृत्ता वर्तितेषु च ॥४२॥
रेचिता रेचिते कार्या अन्या लीलागते त्रिधा॥
कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा ॥४३॥
विवर्तनं च पञ्चैव ऊर्वोः कर्माणि निर्दिशेत्॥
नमनोन्नमने पारन्त्योर्महीपृष्ठेद्भुते यदा ॥४४॥
स्थिता पादतलाग्रेण कम्पितं तत्तदिष्यते॥
गच्छेदभ्यन्तरं जानु शनैर्यद्वलितं तु तत् ॥४५॥
स्तम्भनं चापि विज्ञेयमपवृत्तक्रियाकुलम्॥
वलिताविद्धभावं स्यादुद्वर्तनमथापि च ॥४६॥
पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्र निवर्तितम्॥
गतिष्वधमपात्राणां कम्पितं संप्रयोजयेत् ॥४७॥
वलनं चैव कर्तव्यं स्त्रीणां स्वैरपरिक्रमे॥
भीमोर्धसविषादेषु स्तम्भनं संप्रयोजयेत् ॥४८॥
व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं तथा॥
विवर्तनं च कर्तव्यं संक्रमादिपरिक्रमे ॥४९॥
आवर्तितं नतं क्षिप्तं चोद्वाहितमथापि च॥
परिवृत्तं तथा पञ्च जङ्घाकर्माणि निर्दिशेत् ॥५०॥
आवर्तितं तु व्यत्यासाद्वामदक्षिणजङ्घयोः॥
जान्वोराकुञ्जनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः ॥५१॥
विक्षेपाच्चैव जंघायाः क्षिप्तमित्यभिधीयते॥
उद्वाहितं तु विज्ञेयमूरूद्वाहनकर्मणा ॥५२॥
प्रतीपनयनं यत्र परिवृत्तं तदिष्यते॥
आवर्तनं प्रयोक्तव्यं विदूषकपरिक्रमे ॥५३॥
नतं चापि हि कर्तव्यं स्थानासनगतादिषु॥
क्षिप्तं व्यायामयोगेषु ताण्डवेषु प्रयोजयेत् ॥५४॥
तथा चोद्वाहितं कार्यमाविद्धगमनादिषु॥
ताण्डवादौ प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः ॥५५॥
उद्घाटितसमश्चैव,संचरः॥
अञ्चितः कुञ्चितश्चैव पादः पञ्चविधः स्मृतः ॥५६॥
स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते॥
यस्य पादस्य करणात्स तद्धटित उच्यते ॥५७॥
कार्योऽनुरक्तकरणे (चैव) प्रचारे ललिते तथा॥
( स्वभावरचितो भूमौ समस्थानः समः स्मृतः ॥५८॥
एष कार्यः सदा पादः स्वभावाभिनयाश्रयः॥
उत्क्षिप्ता तु भवेत्पार्ष्णिः पादेऽग्रतलसंचरे ॥५९॥
निक्षिप्तरेचिते भ्रान्ते पादे यस्ताडितो भवेत्॥
ललितश्चायमेव स्यात्पादो रेचितसंज्ञितः ॥६०॥
एष प्रदानसंचारे ललितोद्वहितं भवेत्॥
उक्षिप्ताग्रतलः पादः कथितस्तु तथाञ्चितः ॥६१॥
नानाभ्रमणकालेषु कार्यः पादोऽयमञ्चितः॥
पादः कुञ्चितमध्योऽयं भवेत्कुञ्चितसंज्ञितः ॥६२॥
अतिक्रान्ताभिगमने पादमेतत्प्रयोजयेत्॥
एकपादप्रचारो यः स चारीत्येव संज्ञितः ॥६३॥
द्विपादक्रमणं यत्र करणं नाम तद्भवेत्॥
करणानां समायोगः खण्ड इत्यभिधीयते ॥६४॥
द्वाभ्यां त्रिभिर्वा यदि वा चतुर्भिर्युक्तं भवेन्मण्डलमेव नाम्ना॥
इत्यङ्गकर्माभिहितं ब्रवीमि निबोध राजंस्त्वमुपाङ्गकर्म ॥६५ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अङ्गवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP