संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५७

खण्डः ३ - अध्यायः ०५७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
विरूपाक्षो विवृत्ताक्षः प्रांशुदण्डोज्ज्वलाननः॥
ऊर्ध्वकेशो हरिश्छमश्रुर्द्विबाहुर्भीषणाननः ॥१॥
वर्णेन रक्तकृष्णाङ्गः कृष्णाम्बरधरस्तथा॥
सर्वाभरणधारी च दण्डरश्मिकरस्तथा ॥२॥
भार्या च तस्य कर्तव्या देवी निनृतितस्तथा॥
कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः ॥३ ।
कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निनृतिस्तथा॥
बिभर्ति तामसं रूपं वासांसि च ततो नृप ॥४॥
मारणं तत्करे दण्डं बन्धनं चोष्ट्ररश्मयः॥
महामोहस्तथैवोष्ट्रः कथितस्तस्य वामतः ॥९॥
वपुर्विरूपाक्षमिदं प्रदिष्टं रक्षोधिपस्याप्रतिमस्य तस्य ।
अतः परं वच्मि तवाद्य राजन्वायोस्तुरूपं परमस्य धाम्नः ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिर्माणो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP