संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७३

खण्डः ३ - अध्यायः १७३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
शुक्लपक्षादथारभ्य सोमाष्टम्यां नराधिप॥
पूजयेत्सोपवासस्तु देवदेवं त्रिलोचनम् ॥१॥
लिङ्गे वाप्यथ वार्चायां कमले यदि वा स्थले॥
घृतक्षीराभिषेकेण स्नानेन विविधेन च ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
गीतेन नृत्यवाद्येन वह्निसंतर्पणेन च ॥३॥
ब्राह्मणानां च पूजाभिर्यथावन्मनुजोत्तम॥
व्रतावसाने दद्याच्च तथा धेनुं पयस्विनीम् ॥४॥
पुण्डरीकफलावाप्तिः स्वर्गलोकं च गच्छति॥
कृष्णाष्टमीषु चाप्येवं पूजयित्वा महेश्वरम् ॥५ ॥
वह्निष्टोममवाप्नोति स्वर्गलोकं च गच्छति॥
अष्टमीद्वितयं कृत्वा तथा संवत्सरं नरः ॥६॥
प्राप्याश्वमेधस्य फलं यथावद्भुक्त्वा भोगान्सुरनाथस्य लोके॥
लोकानवाप्याथ महेश्वरस्य सायुज्यमायात्यचिरेण तस्य ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महेश्वराष्टमीव्रतवर्णनो नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥१७३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP