संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७७

खण्डः ३ - अध्यायः ०७७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
धर्मस्य रूपनिर्माणं जानस्य च परन्तप॥
वैराग्यस्य व धर्मज्ञ तथैश्वर्यस्य मे वद ॥१॥
मार्कंडेय उवाच॥
चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः॥
सर्वाभरणवाञ्छ्वेतो धर्मः कार्यो विजानता ॥२॥
दक्षिणे चाक्षमालां च तस्य वामे तु पुस्तकम्॥
मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागगः ॥३॥
वामभागगतः कार्यः सुखः परम रूपवान्॥
कार्यौ धर्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः ॥४॥
अक्षमाला स्मृतः कालः पुस्तकं चागमं स्मृतम्॥
यज्ञः सत्यं तपो दानं तस्य वक्त्रचतुष्टयम् ॥५॥
देशकालौ तथा शौचं शुद्धिश्चास्य भुजः स्मृतः॥
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ॥६॥
तस्य देवस्य धर्मज्ञ ज्ञेयं पादचतुष्टयम्॥
सत्त्वाधिक्त्वाच्छुक्लस्तु ज्ञानवासश्च कीर्त्यते ॥७॥
अथवा चास्य कर्तव्याः पत्न्यश्चैव चतुर्दश॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥८॥
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिस्तुष्टिश्चतुर्दशी॥
द्वाराण्येतानि धर्मस्य सर्वाणि कथितानि ते ॥९॥
कार्याः सरूपा द्विभुजाश्च सर्वास्तेजोन्वितास्ताश्च सुभूषणाश्च॥
धर्मः स्थितः स्याद्यदि चैक एव भार्यान्वितश्चेदथ चोपदिष्टः ॥१०॥
इति श्रीविष्णुध० तृ० ख० मा० सं० धर्मरूपनिर्माणो नाम सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP