संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५०

खण्डः ३ - अध्यायः १५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
तस्मिन्नेव व्रते राजन्मया पूर्वोदिते शुभे ॥१॥
विष्णोः स्थाने त्वनन्तस्य पूजा कार्या विजानता॥
तस्य संपूजनं कृत्वा महीगगनवेधसाम् ॥२॥
द्वितीयादिषु कुर्वीत यथावद्विजितेन्द्रियः॥
अनन्तं पूजयेद्विद्वान्प्रथमेह्नि यथाविधि ॥३॥
व्रतमेतन्नरः कृत्वा पूर्णं संवत्सरं ततः॥
विष्णुलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥४॥
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः॥
धनेन रूपेण सुखेन युक्तो जनाभिरामः प्रमदाप्रियश्च ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पेऽनन्ततवर्णनो नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP