संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६७

खण्डः ३ - अध्यायः ०६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
प्रागुक्तं रूपनिर्माणं त्वया चन्द्राम्बुनाथयोः॥
तयोरेवापरं ब्रूहि रूपमकेन्दुरूपयोः ॥१॥
मार्कण्डेय उवाच॥
रविः कार्यः शुभश्मश्रुः सिन्दूराभरणप्रभः॥
सुदीप्तवेशः स्वाकारः सर्वाभरणसंयुतः ॥२॥
चतुर्बाहुर्महातेजाः कवचेनाभिसंवृतः॥
कर्तव्या रशना चास्य यावियाङ्गेति संज्ञिता ॥३॥
रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः॥
ऊर्ध्वस्रग्दामसंस्थानाः सर्वपुष्पाञ्चिताः शुभाः ॥४॥
सुरूपरूपः स्वाकारो दण्डी कार्योस्य वामतः॥
दक्षिणे पिङ्गलो भागे कर्तव्यश्चातिपिङ्गलः ॥५॥
उद्दीप्तवेशौ कर्तव्यौ तावुभावपि यादव॥
तयोर्मूर्धनि विन्यस्तौ करौ कार्यौ विभावसोः ॥६॥
लेखनीपत्रककरः कार्यो भवति पिङ्गलः॥
चर्मशूलधरोदेवस्तथा यत्नाद्विधीयते ॥७॥
सिंहो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः॥
चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पाश्वर्योः ॥८॥
रेवन्तश्च यमश्चैव मनुद्वितयमेव च॥
ग्रहराजो रविः कार्यो ग्रहैर्वा परिवारितः ॥९॥
राज्ञी च रिक्षुभा च्छाया तथा देवी सुवर्चसा॥
चतस्रश्चास्य कर्तव्या पत्न्यश्च परिपार्श्वयोः ॥१०॥
एकचक्रेऽथ सप्ताश्वे षड्रेखाङ्के रथोत्तमे॥
उपविष्टस्तु कर्तव्यो देवो वारुणसारथिः ॥११॥
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च॥
त्रिष्टुप् च जगती सप्त छन्दांस्यर्करथे हयाः ॥१२॥
रश्मिभिः करसंस्थैस्तु धारयत्यखिलं जगत्॥
सिंहो ध्वजगतश्चास्य साक्षाद्धर्मः प्रकीर्तितः ॥१३॥
रशनास्थं जगत्सर्वं देवो धारयते तथा॥
राज्ञी भूरिक्षुभा द्यौश्च च्छाया छाया प्रकीर्तिता ॥१४॥
प्रभा सुवर्चसा प्रोक्तास्तस्य देवस्य पत्नयः॥
रक्तवर्णः स भगवांस्तेजसा धाम कारणात् ॥१५॥
असह्यतेजोधारित्वाद् गूढगात्रस्तथैव च॥
एवं सर्वमयं धाम सूर्य एव प्रकीर्तितः ॥१६॥
रूपं तथैतद्दिवसस्य भर्तुर्मयेरितं सर्वजगन्मयस्य॥
तेजोनिधानस्य परोज्ज्वलस्य सर्वाधिनाथस्य सनातनस्य ॥१७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० आदित्यरूपवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP