संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १९३

खण्डः ३ - अध्यायः १९३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
कार्तिके पौर्णमास्यां तु पूर्णं शिशिरदीधितिम्॥
पद्मे षोडशपत्रेषु कर्णिकायां तु पूजयेत् ॥१॥
केसरे पूजयेत्तत्र नक्षत्राण्यष्टविंशतिः॥
पत्रेषु तिथिदेवांश्च तथा ज्योत्स्नां च पूजयेत् ॥२॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
गुडेन परमान्नेन दध्ना च लवणेन च ॥३॥
अपूपैश्च महाभाग फलैः कालोद्भवैस्तथा॥
व्रतावसाने दद्याच्च वासोयुग्मं द्विजातये ॥४॥
ब्राह्मण्यै च महाभाग महारजतरञ्जितम्॥
पूज्यौ च विधिना शक्त्या कालविद्वाचकावुभौ ॥६ ।
सोपवासोऽथ नक्ताशी व्रतमेतत्समाचरेत्॥
नक्ताशनो वा धर्मज्ञ तथैव च हविष्यभुक् ॥६॥
सौभाग्यदं रूपविवर्धनं च लावण्यदं स्त्रीरतिभोगदं च॥
कार्यं प्रयत्नेन नरेन्द्र पुंसा कार्यं तथा स्त्रीभिरदीनसत्त्व ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे पौर्णमासीव्रतवर्णनो नाम त्रिनवत्युत्तरशततमोऽध्यायः ॥१९३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP