संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०३

खण्डः ३ - अध्यायः १०३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
आवाहनानि मे ब्रूहि देवतानां भृगूत्तम॥
भवन्त्यावाहिता मन्त्रैर्यस्मात्सन्निहिताः सुराः ॥१॥
मार्कण्डेय उवाच॥
आवाहनानि ते वच्मि देवानां यदुनन्दन॥
अथोक्तवर्जं केषांचित्केषांचित्पुनरेव ते ॥२॥
सर्वस्यावाहनस्यान्ते श्लोकार्धं परिकीर्तितम्॥
इदमर्घ्यं च पाद्यं च धूपोऽयं प्रतिगृह्यताम् ॥३॥
आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ॥
आगच्छेतां महाभागौ वरदौ चाश्विनौ शुभौ ॥४॥
वसूनावाहयिष्यामि देवानष्टौ वरप्रदान्॥
आयान्तु वरदा देवा वसवः पापनाशनाः ॥५॥
विश्वानावाहयिष्यामि देवानद्भुततेजसः॥
आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ॥६॥
आवाहयाम्यङ्गिरसो देवानद्भुततेजसः॥
आयान्त्वङ्गिरसो देवा महाबल पराक्रमाः ॥७॥
रुद्रानावाहयिष्यामि त्रिनेत्रान्वृषवाहनान्॥
आयान्तु वरदा रुद्रास्त्रैलोक्यवरदाः शुभाः ॥८॥
आवाहयिष्याम्यादित्यान् वरदान्दीप्ततेजसः॥
आयान्तु वरदाः सूर्याः सर्वे ते तेजसोल्बणाः ॥९॥
भृगूनावाहयिष्यामि देवान्दीप्ततपोधनान्॥
आयान्तु भृगवो देवा वरदा दीप्ततेजसः ॥१०॥
सुरानावाहयिष्यामि मरुतस्तेजसाधिकाः॥
आयान्तु मरुतो देवा वरदा भुवनेश्वराः ॥११॥
सुरानावाहयिष्यामि सर्वानेव दिवौकसः॥
आगच्छन्तु सुराः सर्वे मन्त्रपूजाभिलाषिणः ॥१२॥
दैत्यानावाहयिष्यामि महाबलपराक्रमान्॥
आयान्तु दैत्या धर्मिष्ठा देवदेवानुगा मम ॥१३॥
आवाहयिष्ये गन्धर्वान्रूपद्रविणसंयुतान्॥
आयान्तु सर्वगन्धर्वा वरदाः कामरूपिणः ॥१४॥
यक्षानावाहयिष्यामि धनाध्यक्षसमन्वितान्॥
आयान्तु वरदा यक्षास्त्रैलोक्यविदिता मम ॥१५॥
आवाहयिष्यामि तथा राक्षसान्विविधायुधान्॥
आयान्तु राक्षसा वीरा देवदेवानुयायिनः ॥१६॥
आवाहयिष्यामि तथा विद्याधरगणानहम्॥
विद्याधराः समायान्तु विविधाः गगनङ्गमाः ॥१७॥
आवाहयिष्यामि तथा किन्नरान्देवगायनान्॥
आयान्तु किन्नराः सर्वे सुस्वरास्तु सुलोचनाः ॥१८॥
नागानावाहयिष्यामि भुजगान्सर्पगोचरान॥
आयान्तु वरदा नागास्त्रैलोक्यविदिता मम ॥१९॥
अहमावाहयिष्यामि तथैवाप्सरसः शुभाः॥
समायान्तु महाभागा देवयोषा ममोज्ज्वलाः ॥२०॥
अहमावाहयिष्यामि सर्वास्त्रिदशपत्नयः॥
आयान्तु वरदाः सर्वास्तप्तचामीकरप्रभाः ॥२१॥
आवाहयिष्यामि तथा वरदा देवमातरः॥
आयान्तु वरदाः सर्वा सुवेशाः सुखदाः शिवाः ॥२२॥
पितॄनावाहयिष्यामि सूक्ष्मरूपधरानहम्॥
आयान्तु पितरः सर्वे गणस्थास्तु पृथक्पृथक् ॥२३॥
आवाहयिष्यामि तथा सुपर्णान्बलवत्तरान्॥
सुपर्णास्तु समायान्तु विष्णुतेजोपबृंहिताः ॥२४॥
आवाहयामि वरदान्सर्वानेव प्रजापतीन्॥
प्रजाध्यक्षाः समायान्तु त्रैलोक्यपरिपालकाः ॥२५॥
आवाहयामि देवेन्द्रान्देवान्भुवननायकान्॥
आयान्तु देवनाथा मे वरदाः कामरूपिणः ॥२६॥
मनूनावाहयिष्यामि प्रभुत्वे जगतः स्थितान्॥
आयान्तु मनवः सर्वे तपसा नष्टकिल्बिषाः ॥२७॥
आवाहयिष्याम्योषध्यः सर्वप्राणिधराः शुभाः॥
ओषध्यश्च समायान्तु सर्वाः कामप्रदाः शुभाः ॥२८॥
ऋषीनावाहयिष्यामि तपसा द्योतितप्रभान्॥
आयान्तु ऋषयः सिद्धाः सर्वे मे दीप्ततेजसः॥
शैलानावहायिष्यामि सर्वौषधिसमन्वितान् ॥२९॥
आयान्तु भूधराः शैलाः सर्वे मे स्थावरेश्वराः॥
द्रुमानावाहयिष्यामि नानारूपधरानहम ॥३०॥
द्रुमाः सर्वे समायान्तु मनोमारुतरंहसः॥
आवाहयिष्यामि तथा पातालान्सर्वगोचरान् ॥३१॥
आयान्तु सर्वे पाताला दैत्यस्थाना ह्यविन्दिताः॥
द्वीपानावाहयिष्यामि सर्वानद्भुतधारिणः ॥३२॥
आयान्तु द्वीपा लोकानां स्थानभूता जगत्प्रियाः॥
लोकानावाहयिष्यामि स्थानभूतान्मनोहरान् ॥३३॥
आयान्तु लोकाः सकलाः सर्वे मे भूतभावनाः॥
आवाहयिष्यामि तथा समुद्राञ्जगतः प्रियान् ॥३४॥
समुद्रा मे समायान्तु रसाधारा जगत्प्रियाः॥
वर्षानावाहयिष्यामि सर्वभूताश्रयानिह ॥३५॥
आगच्छन्तु तथा चेह वर्षाः सर्वमनोहराः॥
आवाहयिष्यामि तथा चतुरः सागरानहम् ॥३६॥
सागराः शीघ्रमायान्तु सर्वे तोयधरा मम॥
नदीस्त्वावाहयिष्यामि वरदा लोकमातरः ॥३७॥
आयान्तु वरदा नद्यः सर्वपापहराः शुभाः॥
आवाहयिष्यामि तथा सर्वानभ्रगणानहम् ॥३८॥
आयान्त्वभ्रा महाभागाः सर्वे चाशुचरा मम॥
आवाहयिष्यामि तथा पिशाचान्सर्वगानहम्॥
पिशाचास्तु समायान्तु सर्वे मे कामरूपिणः ॥३९॥
आवाहयिष्यामि तथा स्कन्दस्य पार्श्वगानहम् ॥४०॥
नानारूपाः समायान्तु स्कन्दस्य पार्श्वगा मम॥
आवाहयिष्यामि तथा देवानां पार्षदानहम् ॥४१॥
नानारूपाः समायान्तु देवानां पार्षदा मम॥
आवाहयिष्यामि तथा हरस्य पार्षदानहम्॥
नानारूपाः समायान्तु हरस्य पार्षदा मम ॥४२॥
आवाहयिष्यामि तथा मातरो लोकमातरः ॥४३॥
आयान्तु मातरो देव्यो वरदाः सर्वगाः शुभाः॥
ग्रहानावाहयिष्यामि सर्वलोकेश्वरानहम् ॥४४॥
ग्रहाः सर्वे समायान्तु दीप्ता भुवननायकाः॥
आवाहयिष्यामि तथा नक्षत्रान्वरदानहम् ॥४५॥
आयान्तु सर्वे नक्षत्राः सर्वे भुवननायकाः॥
दिशस्त्वावाहयिष्यामि प्रागाद्याः सुमनोहराः ॥४६॥
आगच्छन्तु दिशः सर्वाः सर्वभूतसुखावहाः॥
वीथ्यस्त्वावाहयिष्यामि दिव्या नवग्रहाश्रयाः ॥४७॥
आयान्तु वीथ्यः सकला ग्रहनक्षत्रमण्डिताः॥
अहमावाहयिष्यामि मुहूर्तान्सूक्ष्मरूपिणः ॥४८॥
मुहूर्ताः शीघ्रमायान्तु कालस्यावयवाः शुभाः॥
ऋतूनावाहयिष्यामि षडहं भुवनेश्वरान् ॥४९॥
आयान्तु ऋतवः सर्वे जगच्चक्रप्रवर्तकाः॥
आवाहयिष्यामि तथा पञ्चसंवत्सरानहम् ॥५०॥
आयान्तु वत्सराः सर्वे कालचक्रप्रवर्तकाः॥
युगानावाहयिष्यामि चतुरो दीप्ततेजसः ॥५१॥
आगच्छन्तु युगाः सर्वे चतुर्मूर्तिव्यवस्थिताः॥
अहमावाहयिष्यामि मनूंश्चैव चतुर्दश ॥५२॥
मन्वन्तराः समायान्तु त्रिदशावधिसंस्थिताः॥
कालमावाहयिष्यामि देवं सावयवं शुभम् ॥५३॥
आगच्छ भगवन्काल देवदेव जनार्दन॥
देवानावाहयिष्यामि यज्ञमूर्तिधरानहम् ॥५४॥
देवाः सर्वे समायान्तु वरदा बहुरूपिणः॥
ग्रहमावाहयिष्यामि विद्यास्थानान्यशेषतः ॥५५॥
सर्वाणीह समायान्तु लोकानां हितकाम्यया॥
शास्त्रानावाहयिष्यामि शान्तान्दर्शनवत्थितान् ॥५६॥
शस्त्राणि शीघ्रमायान्तु चमूनां मण्डनं परम्॥
अस्त्राण्यावाहयिष्यामि त्रैलोक्यस्य हितानि वै ॥५७॥
सर्वे चेह समायान्तु धर्मसेतुप्रवर्तकाः॥
अहमावाहयिष्यामि वेदशास्त्राण्यनेकशः ॥५८॥
वेदशास्त्राः समायान्तु जगद्रक्षणतत्पराः॥
अहमावाहयिष्यामि सर्वांस्त्रिदशवाहनान् ॥५९॥
इह सर्वे समायान्तु सर्वे त्रिदशवाहनाः॥
नागानावाहयिष्यामि देवपुत्रान्महाबलान ॥६०॥
देवोपवाह्या नागेन्द्राः शीघ्रमायान्तु सत्वराः॥
निधीनावाहयिष्यामि शङ्खपद्मपुरोगमान्॥
आयान्तु निधयः सर्वे सर्वलोकैकभावना ॥६१॥
आह्वानकार्यं यदि सङ्गमध्यादेकस्य कार्यं यदुवंशनाथ॥
कार्यादथेहा तु तदेकवत्स्यादाह्वानमन्त्रस्य यथानुरूपाः ॥६२॥
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे देवसंवाह्वानं नाम त्र्युत्तरशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP