संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६१

खण्डः ३ - अध्यायः १६१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि तव शैलव्रतं शुभम्॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥१॥
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥
चैत्रशुक्लसमारम्भात्प्रत्यहं दिनसप्तकम् ॥२॥
तेषां संपूजनं कुर्याद्बहिः स्नानं समाचरेत्॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा ॥३॥
यवैर्होमस्तथा कार्यो दद्याद्विप्रेषु दक्षिणाम्॥
नक्तं यवान्नमश्नीयात्कुर्यात्संवत्सरं व्रतम् ॥४॥
व्रतावसाने दद्याच्च यवस्थालीश्च विंशतिम्॥
वाचकाय द्विजेन्द्राय सुवर्णं गां च तस्य तु ॥५॥
द्रतेनानेन चीर्णेन सर्वां सागरमेखलाम्॥
भुनक्ति वसुधां राजा वशीकृत्वा रिपून्नृप ॥६॥
भोगांश्च भुक्त्वा त्रिदिवे च राजन्मानुष्यमासाद्य यथोक्तमेतत्॥
प्राप्नोति सर्वं हि मयेरितं यज्जन्मान्तराण्येव नरेन्द्र सप्त ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे सप्तशैलव्रतवर्णनो नामैकषष्ट्युत्तरशततमोऽध्यायः ॥१६१॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP