संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७१

खण्डः ३ - अध्यायः ०७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
ग्रहाणां देवता प्रोक्ता यास्त्वया पूर्वमेव तु॥
तासां स्वरूपनिर्माणं कथयस्वामितद्युते ॥१॥
मार्कण्डेय उवाच॥
पूर्वमेव मया प्रोक्तं रूपं वह्न्यम्बुनाथयोः॥
तथा च कथितं तुभ्यं विष्णुदेवेन्द्रयोः पुरा ॥२॥
चतुर्मूर्तेः कुमारस्य रूपं ते वच्मि यादव॥
कुमारश्च तथा स्कन्दो विशाखश्च गुरुस्तथा ॥३॥
कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः॥
रक्ताम्बरधरः कार्यो मयूरवरवाहनः ॥४॥
कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः॥
पताकावैजयन्ती च शक्तिः कार्या च वामयोः ॥५॥
स्कन्दो विशाखश्च गुहः कर्तव्यश्च कुमारवत्॥
षण्मुखास्ते न कर्तव्या न मयूरगतास्तथा ॥६॥
चतुरात्मा हि भगवान्वासुदेवः सनातनः॥
प्रादुर्भूतः कुमारस्तु देवसेनानिनीषया ॥७॥
अष्टादशभुजा कार्या भद्रकाली मनोहरा॥
आलीढस्थानसंस्थाना चतुःसिंहे रथे स्थिता ॥८॥
अक्षमाला त्रिशूलं च खङ्गं चर्म च यादव॥
बाणचापे च कर्तव्ये शङ्खपद्मौ तथैव च ॥९॥
सुक्स्रुचौ च तथा कार्यौ तथा वेदीकमण्डलू॥
दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ ॥१०॥
हस्तानां भद्रकाल्यास्तु भवेच्छान्तिकरः करः॥
एकश्चैव महाभाग रत्नपात्रधरो भवेत् ॥११॥
हंसयानेन कर्तव्यो न च कार्यश्चतुर्मुखः॥
ब्रह्मोक्तमपरं रूपं सर्वं कार्यं प्रजापतेः ॥१२॥
विनायकस्तु कर्तव्यो गजवक्त्रश्चतुर्भुजः॥
शूलकं चाक्षमालां च तस्य दक्षिणहस्तयोः ॥१३॥
पात्रं मोदकपूर्णं तु परशुश्चैव वामतः॥
दन्तश्चास्य न कर्तव्यो वामो रिपुनिषूदन ॥१४॥
पादपीठकृतः पाद एक आसनगो भवेत्॥
पूर्णमोदकपात्रं तु कराग्रे तस्य कारयेत ॥१५॥
लम्बोदरस्तथा कार्यः स्तब्धकर्णश्च यादव॥
व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतिवान् ॥१६॥
विश्वकर्मा नु कर्तव्यः सूर्यरूपधरः प्रभुः॥
स दशपाणिर्द्विभुजस्तेजोमूर्तिधरो भवेत् ॥१७॥
विश्वं करोति वै यस्माद्विश्वकर्मा ततः स्मृतः॥
विश्वकृद्भगवान्विष्णुर्विश्वकर्मा स उच्यते ॥१८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कुमारभद्रकालीचतुर्वक्त्रगजवक्त्रविश्वकर्मरूपनिरूपणो नामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP