संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६४

खण्डः ३ - अध्यायः २६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दमेन युक्तः पुरुषः सर्वान्कामानवाप्नुयात्॥
तस्मात्सर्वप्रयत्नेन दमः कार्यो विजानता ॥१॥
इन्द्रियाणां जयो लोके दम इत्यभिधीयते॥
नादान्तस्य क्रियाः काश्चिद्भवन्तीह द्विजोत्तमाः ॥२॥
नादान्तः सिद्धिमाप्नोति नादान्तो गतिमीप्सिताम्॥
नादान्तः श्रियमाप्नोति नादान्तः किञ्चिदेव तु ॥३॥
पञ्चेन्द्रियस्य मर्त्यस्य यद्येकं छिद्रमिन्द्रियम्॥
ततोऽस्य क्षरति प्रज्ञा दृतेः पात्रादिवोदकम् ॥४॥
पुरुषार्थं परित्यज्य स्वार्थे च सततोत्थितः॥
इन्द्रियाणां बुधस्तेषाङ्कः स्वार्थे प्रयतेन्नरः ॥५॥
इन्द्रियाणां प्रसङ्गेन गतिं गच्छति दारुणाम्॥
विजित्य तान्येव नरः सर्वान्कामानवाप्नुयात् ॥६॥
दान्तः पुमान्नाकमनुप्रयाति दान्तः पुमान्मोक्षपथं प्रयाति॥
दान्तस्य दुःखं न हि किञ्चिदस्ति दान्तः समाप्नोत्यखिलान्हि कामान् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दमप्रशंसावर्णनो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६४॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP