संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३३

खण्डः ३ - अध्यायः ३३३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते॥
तत्संभूय समुत्थानं शृणुध्वं गदतो मम ॥१॥
फलहेतोरुपायेन कर्म संभूय कुर्वताम्॥
आधारभूतः प्रक्षेपः ततस्तिष्ठेयुरंशकाः ॥२॥
समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः॥
क्षयव्ययौ तथा वृद्धिस्तत्र तस्य तथाविधा ॥३॥
सर्वेषां च मतं कार्यं भाण्डपिण्डव्ययादिकम्॥
समं सर्वस्य विभजँल्लोके तस्मान्महीयते ॥४॥
दैविके राजके वापि व्यसने समुपस्थिते॥
तत्र तत्र स्वशक्त्या तु तस्यांशो दशमः स्मृतः ॥५॥
एकस्य चेत्स्याद्व्यसनं दायादस्तदवाप्नुयात्॥
तस्याभावे च सर्वेषां तेषामेव हि तद्धनम् ॥६॥
ऋत्विजो व्यसनेष्वेवं मान्यस्त्वं कर्मनिस्तरः॥
लभते दक्षिणाभागं स तस्मात्संप्रकल्पितम् ॥७॥
ऋत्विग्याज्यां च दुष्टौ तौ सन्त्यजेतां परस्परम्॥
प्रथमं साहसं दंड्यौ न च तौ त्यागमर्हतः ॥८॥
अन्वाहितं याचितकं सार्धिः साधारणं च यत्॥
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ॥९॥
अदेयानि द्विजश्रेष्ठा यश्चान्यस्मै प्रतिश्रुतम्॥
अदत्तं तु भवेत्क्रोधभयशोकान्वितैर्नरैः ॥१०॥
बालवृद्धास्वतन्त्रैश्च मत्तोन्मत्तस्तथैव च॥
अज्ञानाच्च तथा पात्रं स्पर्धया द्विजसत्तमाः ॥११॥
गृह्णात्ययञ्च यो मोहाद्यश्चादेयं प्रयच्छति॥
तावुभौ चौरवच्छास्यौ धर्मज्ञेन महीक्षिता ॥१२॥
दत्तं स्वयं नाथ परेण दत्तं दत्तं नरो यस्तु हरेत्परस्य॥
ध्रुवं स विप्रा नरकं प्रयाति दत्तं स्वयं वा न च यश्च दद्यात् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संभूयसमुत्थानदेयादेयवर्णनो नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥३३३॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP