संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४७

खण्डः ३ - अध्यायः २४७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
सर्वेषामेव पापानां नास्तिक्यं पातकं परम्॥
नास्तिक्याद्धि परं नास्ति किञ्चिन्पापं द्विजोत्तमाः ॥१॥
अकार्यमिति कार्याणि कृत्वा कार्यवशान्नरः॥
पश्चात्तापेन संयुक्तः क्षिप्रं पापं व्यपोहति ॥२॥
कार्यबुद्ध्या त्वकार्याणि यः करोति नराधमः॥
कथं निवर्तनं तेभ्यो जायते तस्य वै द्विजाः ॥३॥
नास्तिक्यस्य तथा मूलं त्वसच्छास्त्रावगाहनम्॥
तस्मात्सर्वप्रयत्नेन तद्विवर्ज्यं विजानता ॥४॥
सर्वो हि मानवो लोके परलोकनिबन्धनः॥
तत्रापि निरपेक्षस्य किन्नु लोके निबन्धनम् ॥५॥
ये तु वै नास्तिका लोके नरा लोकं प्रति द्विजाः॥
नरके ते हि पच्यन्ते बहुकालं न संशयः ॥६॥
नास्तिक्यमेकं पुरुषस्य लोके विनाशनं विप्रवराः प्रदिष्टम्॥
तस्मात्प्रयत्नेन विवर्जनीयो नास्तिक्यभावः सुखमीप्समानैः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नास्तिक्यदोषवर्णनो नाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४७॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP