संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०२१

खण्डः ३ - अध्यायः ०२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
समाकुञ्चितकं चैव प्रसारितविवर्तिते॥
उद्वाहितं नतं षोढा शय्यास्थानानि निर्दिशेत् ॥१॥
उत्तानितं मुखं चैव सास्तमुक्तकरं तथा॥
समं वामप्रसुप्तस्य स्थानकं तु विधीयते ॥२॥
सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे च जानुनी॥
स्थानमाकुञ्चितं नाम गीतान्तानां प्रयोजयेत ॥३॥
एकं भुजं समाधाय संप्रसारितजानुकम्॥
स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥४॥
अधोमुखे स्थितं चैव विवर्तितमिति स्मृतम्॥
शस्त्रक्षते मृते क्षिप्तं मत्तोन्मत्तेषु तद्भवेत् ॥५॥
अंसोपरि शिरः कृत्वा कुर्युरक्षोभमेव च॥
उद्वाहितं तु विज्ञेयं लीलायाः शंसने प्रभो ॥६॥
तस्या यदेतत्प्रसृतं तु जंघे स्त्रस्तौ करौ तं नतमुद्दिशन्ति ।
आलस्यखेदश्रममोक्षणेषु कार्यस्तु तस्याभिनयप्रयोगः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकविंशतितमोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP