संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७२

खण्डः ३ - अध्यायः १७२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
वरो ध्रुवश्च सोमश्च आपश्चैवानिलोनलः॥
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥१॥
अष्टात्मा वासुदेवोऽयं प्रभवेनाप्ययेन च॥
अष्टम्यां पूजयेद्यस्तु सोपवासो नराधिप ॥२॥
चैत्रमासादथारभ्य शुक्लपक्षे च यादव॥
मण्डलेष्वथ वार्चासु यथावन्मनुजाधिप ॥३॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
बहिःस्नानेन राजेन्द्र तथाधःशयनेन च ॥४॥
व्रतान्ते च तथा दद्याद्धेनुं विप्राय भक्तितः॥
व्रतमेतन्नरः कृत्वा सर्वान्कामानुपाश्नुते ॥५॥
पुण्डरीकमवाप्नोति कुलमुद्धरति स्वकम्॥
वसूनां लोकमासाद्य मोदतेमरसन्निभः ॥६॥
मानुष्यमासाद्य भवत्यरोगो जितेन्द्रियः सत्यपरो विनीतः॥
धनेन धान्येन तथन्वितः स्यात्स्त्रीणामभीष्टश्च तथा सुवेशः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुव्रतवर्णनो नाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP