संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५१

खण्डः ३ - अध्यायः ०५१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
सजलाम्बुदसच्छायस्तप्तचामीकराम्बरः॥
महिषस्थश्च कर्तव्यः सर्वाभरणवान्यतः ॥१॥
नीलोत्पलाभा धूमोर्णा वामोत्सङ्गे च कारयेत्॥
धूमोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ॥२॥
दण्डखड्गावुभौ कार्यौ यमदक्षिणहस्तयोः॥
दण्डोपरि मुखं कार्यं ज्वालमालाविभूषणम् ॥३॥
धूम्रोर्णापृष्ठगं वामं चर्मयुक्तं तथापरम्॥
धूमोर्णादक्षिणं हस्तं यमपृष्ठगतं भवेत् ॥४॥
वामे तस्याः करे कार्यं मातुलुङ्गं सुदर्शनम्॥
पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं च कारयेत् ॥५॥
उद्दिश्य वेशं स्वाकारं द्विभुजं सौम्यदर्शनम्॥
दक्षिणे लेखिनी तस्य वामे पत्रं तु कारयेत् ॥६॥
वामे पाशधरः कार्यः कालो विकटदर्शनः॥
यमं सङ्कर्षणं विद्धि तामसीं तनुमाश्रितम् ॥७॥
मर्यादापालनार्थाय लोकसंहारकारणम्॥
नीलोत्पलदलच्छायस्तामसत्वात्प्रकीर्तितः ॥८॥
वसनं तस्य विख्यातं वासुदेवेन शत्रुहन्॥
चतुर्भुजत्वं विख्यातं ब्रह्मणा परमात्मनः ॥९॥
ब्रह्मणा तस्य निर्दिष्टं सर्वाभरणधारणम्॥
यो मोहो मरणं नॄणां विज्ञेयो महिषस्तु सः ॥१०॥
अमोघं तु करे दण्डं मृत्युं धारयते यमः॥
अनिरुद्धेन तस्योक्तं धारणं खड्गचर्मणोः ॥११॥
कालरात्री तु विज्ञेया धूमोर्णा यदुनन्दन॥
तस्यास्तु शूलिना प्रोक्तं बीजपूरकधारणम् ॥१२॥
चित्रगुप्तो विनिर्दिष्टस्तथात्मा सर्वदेहगः॥
पत्रं धर्ममधर्मं च करस्था तस्य लेखिनी ॥१३॥
काल एव स्वरूपेण कालो यमसमीपगः॥
तस्य पाशः करे घोरो यममार्गः सुदुष्करः ॥१४॥
वज्र उवाच॥
संहारहेतुकी मूर्तिर्विष्णोः सङ्कर्षणो मतः॥
स तु देवस्त्वया प्रोक्तश्चन्द्रशुक्लवपुर्महान् ॥१२॥
तल्पे संहारकर्तृत्वे कृष्णमूर्तिः कथं यमः॥
एतं मे संशयं छिन्धि भृगुवंशविवर्धन ॥१६॥
मार्कंडेय उवाच॥
मूर्तिः साङ्कर्षिणी विष्णो रुद्रः संहारकारकः॥
कल्पक्षये तु संहारे करोति जगतां हि सा ॥१७॥
प्रकृतो याति धर्मज्ञ संहृतं तु तदा जगत॥
तेन प्रकृतिवर्णस्थः करोति जगतां क्षयम् ॥१८॥
कृत्वापि प्राणिसंहारं यमरूपी पुनःपुनः॥
प्राणिनां प्रकृतौ योगं न विधत्ते कदाचन ॥१९॥
विकारे योजयत्येव सुखदुःखात्मके तदा॥
विकाररूपवर्णं तु तेन संहरते जगत् ॥२०॥
रूपमिदं कथितं तव याम्यं पापविनाशकरं विबुधानाम्॥
रूपमतः कथयामि महात्मंस्तोयपतेर्वरुणस्य तवाहम् ॥२१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमरूपनिर्माणो नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP