संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६८

खण्डः ३ - अध्यायः १६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
चैत्रमासस्य सप्तम्यां शुक्लपक्षे नराधिप॥
गोमयेनोपलिप्ते तु मृदा कुर्यात्तु मण्डलम् ॥१॥
तत्राष्टपत्रं कमलं कर्तव्यं वर्णकैः शुभैः॥
कृतोपवासस्तन्मध्य भास्करं पूजयेन्नरः ॥२॥
अरुणं चैव दन्ताकं माठरं च तथा दमम्॥
यमुनां च यमं कालं द्वितीयं मनुमेव च ॥३॥
शनैश्चरं तथा राज्ञीं छायां रेवन्तमेव च॥
सप्तच्छन्दांसि वर्षं च द्यां च पिङ्गलमेव च ॥४॥
केशरेषु यजेद्वाथ पत्रेषूक्ताश्च देवताः॥
दिक्कालपूजनं कार्यं बहिः पद्मस्य पार्थिव ॥५॥
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा॥
व्रते समाप्ते दातव्यस्तुरगो ब्राह्मणाय च ॥६॥
प्राप्याश्वमेधस्य फलं यथावल्लोकानवाप्याथ पुरन्दरस्य॥
तत्रोष्य राजन्सुचिरं च कालं सायुज्यमायाति दिवाकरस्य ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्रतकल्पे सप्तमीपूजाप्रशंसा नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP