संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३१

खण्डः ३ - अध्यायः १३१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
इमां तथान्यां वक्ष्यामि द्वितीयां सर्वकामदाम्॥
यामुपोष्य नरः कामान्सर्वानाप्नोत्यभीप्सितान् ॥१॥
चैत्रद्वितीयां संप्राप्य शुक्लपक्षस्य मानवः॥
दिनावसाने कुर्वीत सम्यक् स्नानं नदीजले ॥२॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छ्वेतवर्णकैः॥
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा ॥३॥
ईक्षुनेक्षुविकारैर्वा गुडेन लवणेन वा॥
दिनावसाने देवेशं पूजयित्वा निशाकरम् ॥४॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः॥
ततस्तैलेन हरितं भक्षयेत्सकृदेव च ॥५॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः॥
सौभाग्यं महदाप्नोति स्वर्गलोकं च गच्छति ॥६॥
एतत्पवित्रं रिपु नाशकारि सौभाग्यदं रोगहरं च राजन्॥
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियापि ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बालेन्दुद्वितीयाव्रतवर्णनो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP