संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७२

खण्डः ३ - अध्यायः ०७२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच ॥
वसूनां देव मे रूपं तथैवाङ्गिरसं शुभम्॥
विश्वेषां चैव देवानां रुद्राणामपि देवताः ॥१॥
भृगूणामथ साध्यानां चादित्यानां तथैव च॥
मरुतां च तथा रूपमाचक्ष्व सुरपूजित ॥२॥
मार्कडेय उवाच॥
प्राजापत्येन रूपेण धरो नाम वसुर्भवेत्॥
वैष्णवेन च रूपेण ध्रुवो नाम प्रकीर्तितः ॥३॥
सोमश्चान्द्रेण रूपेण वायव्येन तथाऽनिलः॥
आग्नेयेनानलः कार्यः प्रभासो वारुणेन च ॥४॥
विश्वेदेवास्तथा कार्याः शक्ररूपधराः सुराः॥
तिर्यग्ललाटेनाक्ष्णा च नागराजो विवर्जितः ॥५॥
जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा॥
माहेश्वरेण रुद्राश्च साध्याक्षा वैष्णवेन तु ॥६॥
आदित्याः सूर्यरूपेण चेति द्वादश यादव॥
पृथक्क्रियायां तेषां तु नवार्कसदृशाः स्मृताः ॥७॥
विण्विन्द्रवरुणाः कार्याः यथा पूर्वं मयेरिताः॥
कर्तव्याः शुक्ररूपेण मरुतो नाम देवताः ॥८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुरूपनिर्माणो नाम द्विसप्ततितमो ऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP