संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ००४

खण्डः ३ - अध्यायः ००४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
तत्राज्ञायुक्तमद्वैधं दीप्तं गम्भीरशब्दवत्॥
क्वचिन्निरुक्तसंयुक्तं वाक्यमेतत्स्वयंभुवः ॥१॥
यत्किंचिन्मिश्रसंयुक्तं युक्तं नाम विभक्तिभिः॥
प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम् ॥२॥
नैगमैर्विविधैः शब्दैर्निपातं बहुलं च यत्॥
न चापि सुमहद्वाक्यमृचीकानां वचः स्मृतम् ॥३॥
अविस्पष्टपदं ज्ञेयमृषिपुत्रवचो नृप॥
भूतभव्यभवज्ञानं जन्मदुःखविकुत्सनम् ॥४॥
मित्राणां तद्भवेद्वाक्यं गर्भेषु च प्रवर्तनम्॥
आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम् ॥५॥
राजर्षीणां तु विज्ञेयं बह्वर्थं बहुविस्तरम्॥
बह्वभिधानं बह्वर्थे देवतानां प्रकीर्तितम् ॥६॥
बह्वभिधानमल्पार्थं दानवानां प्रकीर्तितम्॥
अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत् ॥७॥
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम्॥
गूढाक्षरं तु यक्षाणां किन्नरैरुक्तवत्तथा ॥८॥
नागानामतिविस्पष्टं पुनरुक्तसमन्वितम्॥
रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत् ॥९॥
मन्त्रा नवविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः॥
स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च ॥१०॥
प्रश्नोऽनुज्ञा तथाख्यानमाशास्तिर्विषया मताः॥
एवं ते सर्वविद्यानां विहितं सर्वलक्षणम्
पौरुषे विद्यते तच्च नान्यत्रेति विनिश्चयः॥
स्वभावान्न च्यवन्त्येव ये प्रोक्ता नरवर्जिंताः ॥१२॥
दृश्यते हि पुमान्कश्चित्कश्चिच्छ्रेष्ठतमो धिया॥
तस्मात्तत्रैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप ॥१३॥
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ॥
विचक्षणैरत्र च रागतस्तु ज्ञेयं तथा द्वेषसमागमाच्च ॥१४॥
दिव्येन तुल्यं यदि वार्षवाक्यं वाक्येन तुल्यं यदि वा परेण॥
वाक्यं नराणां नृपरागतस्तु ज्ञेयं यथाद्वेषसमांगमत्वात् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यपरीक्षाध्यायो नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : December 22, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP