संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५१

खण्डः ३ - अध्यायः १५१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
वासुदेवांशकाज्जाताः सर्वे देवगणा नृप ॥१॥
अधिकेन तदंशेन साध्या जातास्तथासुराः॥
तत्रापि चाधिकांशेन चतुरात्मा हरिः स्मृतः ॥२॥
नरो नारायणश्चैव हयो हंसश्च वीर्यवान्॥
हयो हरिरिति ख्यातो हंसः कृष्णश्च कीर्तितः ॥३॥
चतुरात्मा हरि र्जातो गृहे धर्मस्य यादव॥
आदित्येषु तथा युक्तो मित्रावरुणसंज्ञकौ ॥४॥
तावेव साध्यौ जानीहि हरिं कृष्णं च यादव॥
आदित्येषु तु या युक्तौ शक्रविष्णू सुरोत्तमौ ॥५॥
तावेव सिद्धसाध्येषु नरनारायणौ पुनः॥
चैत्रशुक्लचतुर्थ्यां तु सोपवासस्तु पूजयेत् ॥६॥
देवेशं चतुरात्मानं वित्तशक्त्या नराधिप॥
व्रतमेतन्नरः कृत्वा पूर्णं द्वादशवत्सरम्॥
न दुर्गतिमवाप्नोति मोक्षोपायं च विन्दति ॥७॥
ततः समासाद्य च निष्कलत्वं परेण पुंसा च समत्वमेति॥
सर्वेश्वरश्चाप्रतिमप्रभावो विमुक्तदुःखो भुवनस्य गोप्ता ॥८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रते श्रीविष्णुव्रतवर्णनो नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥१५१॥
समाप्तं चतुर्मूर्तिव्रतम्॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP