संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५६

खण्डः ३ - अध्यायः ०५६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
रक्तं जटाधरं वह्निं कुर्याद्वै ध्रूम्रवाससम्॥
ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् ॥१॥
चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वातसारथिम्॥
चतुर्भिश्च शुकैर्युक्तं धूमचिह्नरथे स्थितम् ॥२॥
वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत्॥
रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ॥३॥
ज्वालात्रिशूलौ कर्तव्यौ चाक्षमाला तु वामके॥
रक्तं हि तेजसो रूपं रक्तवर्णं ततः स्मृतम् ॥४॥
वातसारथिता तस्य प्रत्यक्षं धूम्रक्षेत्रता॥
प्रत्यक्षा च तथा प्रोक्ता यागधूम्राभवस्त्रता ॥५॥
अक्षमालां त्रिशूलं च जटाजूटत्रिनेत्रता॥
सर्वाभरणधारित्वं व्याख्यातं तस्य शम्भुना ॥६॥
ज्वालाकारं परं धाम हुतं तेन प्रतीच्छति॥
गृहीत्वा सर्वदेवेभ्यो ततो नयति शत्रुहन् ॥७॥
वाग्दण्डमथ धिग्दण्डं धनदण्डं तथैव च॥
चतुर्थं वधदण्डं च दंष्ट्रास्तस्य प्रकीर्तिताः ॥८॥
श्मश्रु तस्य विनिर्दिष्टं दर्भाः परमपावनम्॥
ये वेदास्ते शुकास्तस्य रथयुक्ता महात्मनः ॥९॥
आग्नेयमेतत्तव रूपमुक्तं पापापहं सिद्धिकरं नराणाम्॥
ध्येयं तवैतन्नृप होमकाले सर्वाग्निकर्मण्यपराजितेन ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिर्माणो नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP