संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५०

खण्डः ३ - अध्यायः २५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
आचारहीनाः पुरुषा भवन्त्यल्पायुषो द्विजाः॥
आचारहीनश्च तथा राक्षसैरभिभूयते ॥१॥
यक्षैः पिशाचैर्गन्धर्वैस्तथा चान्यैर्निशाचरैः॥
डाकिनीभिः सुराणां च तथा पार्षगणाः पृथक ॥२॥
दत्तमाचारहीनेन न प्रतीच्छन्ति देवताः॥
पितरश्च महाभाग ऋषयश्च तपोधनाः ॥३॥
सर्वलक्षणयुक्तोऽपि नरस्त्वाचारवर्जितः॥
न प्राप्नोति तथा विद्यां न च किञ्चिदभीप्सितम्॥
आचारहीनः पुरुषो नरकं प्रतिपद्यते ॥४॥
आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः॥
आचारहीनेन तु धर्मकार्यं कृतं हि सर्वं भवतीह मिथ्या ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा र्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वनाचारदोषवर्णनो नाम पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५०॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP