संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ००३

खण्डः ३ - अध्यायः ००३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
षडक्षरेण पादेन गायत्रं छन्द उच्यते॥
उष्णिक् सप्ताक्षरं चैव अष्टाक्षरमनुष्टुभम् ॥१॥
नवाक्षरा च बृहती पंक्तिसंज्ञं दशाक्षरम्॥
एकादशाक्षरं त्रिष्टुब्जगती द्वादशाक्षरम् ॥२॥
त्रयोदशाक्षरं ज्ञेयमतिपूर्वं तथैव हि॥
चतुर्दशाक्षरा चैव शक्वरी यदुनन्दन ॥३॥
अतिशक्वरी च कथिता तथा पञ्चदशाक्षरा॥
षोडशाक्षरमिच्छन्ति च्छन्दोऽष्टिरिति यत्स्मृतम् ॥४॥
अत्यष्टिसंज्ञं छन्दश्च तथा सप्तदशाक्षरम्॥
अष्टादशाक्षरं चैव वृत्तिसंज्ञं प्रकीर्तितम् ॥५॥
तथातिवृत्तिसंज्ञं च विंशति स्त्वेकवर्जिता॥
विंशतिश्चाक्षराणि स्युः कृतिसंज्ञं यदूत्तम ॥६॥
विंशतिस्त्वेकसंयुक्ता प्रकृतिः परिकीर्तिता॥
द्वाविंशतिश्च कथितं तथैवाकृतिसंज्ञकम ॥७॥
त्रयोविंशतिश्च विकृतिः सा चैकात्संकृतिर्मता॥
संकृतिश्चैकसंयुक्ता कथिता विकृतिर्नृप ॥८॥
षड्विंशतिश्चातिकृतिश्छन्दश्चोक्तं मनीषिभिः॥
यथायथं चतुर्भिः स्वैः पादैरेतानि निर्दिशेत् ॥९॥
मात्रकस्तु लघुर्वर्णः स्पष्टलेखाभिचिह्नितः॥
संस्थाप्यः स्याद्द्विमात्रस्तु गुरुर्वक्रस्तथा भवेत् १०॥
लघुश्चान्त्यश्च यो वर्णः स गुरुश्च भवेन्नृप॥
दीर्घप्लुतौ च कथितौ तथैव गुरुसंज्ञकौ ॥११॥
संयोगाद्याः परे यस्मात्स लघुश्च गुरुः स्मृतः॥
लघुगुरुविभागेन प्रस्तारोनेन यादव ॥१२॥
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप॥
स्याद्यथानयनं तेषां तथा वक्ष्यामि तच्छृणु ॥१३॥
यावत्संख्याक्षरं च्छंदस्तावन्तो गुरुवो नृप॥
स्थाप्या अधश्च पूर्वाणां लघु पूर्वस्य विन्यसेत् ॥१४॥
अतोऽन्येषु त्ववस्थाप्यं नृपमुख्य यथास्थितम्॥
एवमेव विधिं कुर्यादादिश्च गुरुभिः पुनः ॥१५॥
पूरयेदक्षरैस्तावत्कुर्यादेतं नृपोत्तम॥
यावदक्षरसंख्या स्युः सर्वे हि लघवो नृप ॥१६॥
एतत्स्यादक्षरैच्छन्दो मात्राश्छन्दास्तथैव हि॥
उक्तवर्णाक्षरं छन्दो भवेदेकविवर्जितः ॥१७॥
यदा तदा निवृत्संज्ञो ह्यधिकेन तमत्तथा॥
वर्णद्वयेन रहितं विराडिति हि शब्दितम् ॥१८॥
अधिकं च सुरासंज्ञं कथितं यदुसत्तम॥
तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव ॥१९॥
दिङ्मात्रमेतत्कथितं नरेन्द्र विस्तारजिज्ञासुरतो मनुष्यः॥
संसाधयेत्तत्स्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् २०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधिर्नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : December 22, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP