संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२९

खण्डः ३ - अध्यायः २२९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
ततो गृहाश्रमे तिष्ठन्नग्नीनाधाय धर्मवित्॥
कृत्वा विवाहं विधिवद्धर्मेण च धनागमम् ॥१॥
त्रिवर्गं तत्र सेवेत यज्ञैश्च विविधैर्यजेत्॥
आचारपालनं कुर्याद्वेदाध्ययनमेव च ॥२॥
उत्सर्गं छन्दसां कुर्याच्छुक्लान्ते श्रावणस्य च॥
पौषमासस्य रोहिण्यामुपाकर्म विधीयते ॥३॥
उत्सर्गानन्तरं वेदं नाधीयीत कदाचन॥
तत्रापि शास्त्राध्ययनं द्विजातीनां विधीयते ॥४॥
यत्नः कार्यः पूजने चातिथीनां चैतत्कार्यं सर्वकालं गृहस्थैः॥
नान्यो धर्मो विद्यते तस्य विप्राश्चैतद्धर्मं तस्य श्रेष्ठं प्रदिष्टम् ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे हंसगीतायां गृहस्थधर्मवर्णनो नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२२९॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP