संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - भगवन्देव...

सर्वरक्षाकरं शिवकवचम् - श्रीदेव्युवाच - भगवन्देव...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - भगवन्देवदेवेश सर्वाऽऽम्नायप्रपूजितः । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥१॥
प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सर्वरक्षाकरं देवं यदि स्नेहोऽस्ति सम्प्रति ॥२॥
श्रीभगवानुवाच - प्रासादमन्त्रकवचस्य वामदेव ऋषिः, पङ्क्तिश्छन्दः, सदाशिवो देवता, साधकाभीष्टसिद्धये विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः । षडक्षरस्वरूपो मे वदनं च महेश्वरः ॥३॥
पाञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥४॥
वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥५॥
द्वाविंशार्णात्मको रुद्रः कुक्षौ मे परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥६॥
चिन्तामणिर्बीजरूपे सर्वनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥७॥
एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः । मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु ॥८॥
ओमित्याख्यो महाबीजस्वरूपस्त्रिपुरान्तकः सदा मां रणभूमौ तु रक्षतु त्रिदशाधिपः ॥९॥
ऊर्ध्वमूर्धानमीशानो मम रक्षतु सर्वदा । दक्षिणस्यां तत्पुरुषो अव्यान्मे गिरिनायकः ॥१०॥
अघोराख्यो महादेवः पूर्वस्या परिरक्षतु । वामदेवः पश्चिमस्यां सदा मे परिरक्षतु । उत्तरस्यां सदा पातु सद्योजातः स्वरूपधृक् ॥११॥
फलश्रुतिः । इत्थ रक्षाकरं देवि कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् ॥१२॥
पूजाकाले पठेद्यस्तु साधकों दक्षिणे भुजे । देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः ॥१३॥
कवचं यस्तु शिरसि धारयेद्यदि मानवः । करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः ॥१४॥
स्वर्णपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् । राजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः ॥१५॥
सम्प्राप्य महतीं लक्ष्मीमन्त्रं च शिवरूपधृक् । यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ॥१६॥
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् । अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे ॥१७॥
तव स्नेहान्महादेवि कथितं कवचं शुभम् । न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥१८॥
योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् । तेनार्चिता महादेवि सर्वे देवा न संशयः ॥१९॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे सर्वरक्षाकरं कवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP