संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । अथ धूमा...

श्रीधूमावतीकवचम् - श्रीगणेशाय नमः । अथ धूमा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । अथ धूमावती कवचम् । श्रीपार्वत्युवाच - धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया । कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥१॥
श्रीभैरव उवाच - श‍ृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे । कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥२॥
ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः । योगिनो भव शत्रुघ्ना यस्या ध्यान प्रभावतः ॥३॥
ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम् स्वाहा शक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः । ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु । धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥४॥
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा । शूर्पहन्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥५॥
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् । सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम् ॥६॥
चञ्चला हृदयं पातु धृष्टा पार्श्वं सदावतु । धूमहस्ता सदा पातु पादौ पातु भयावहा ॥७॥ (धूतहस्ता)
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा । क्षुत्पिपासार्दिता देवी भयदा कलहप्रिया ॥८॥
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी । इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥९॥
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे । पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः । दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥१०॥
इति भैरवीभैरव संवादे धूमावतीतत्त्वे धूमावतीकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP