संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । श्रीग...

श्रीषोडशीकवचम् - ॐ श्रीगणेशाय नमः । श्रीग...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । श्रीदेव्युवाच - भगवन्देवदेवेश भक्तानुग्रहकारक । श्रीमहाषोडशीदेव्याः कवचं वद मे प्रभो ॥१॥
श्रीभैरव उवाच अधुना देवि वक्ष्यामि महाश्रीषोडशीमयम् । परमार्थाभिधं वर्म श्रीविद्यासारमुत्तमम् ॥२॥
अस्य श्रीमहाषोडशीकवचस्य शिवऋषिः, पङ्क्तिछन्दः, श्रीमहाषोडशीदेवता । कएईल ह्रीं बीजं,  हसकहल ह्रीं शक्तिः, सकल ह्रीं कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तिताः । अथ ध्यानम् - सूर्यकोटिसहस्राभां सर्वाभरणभूषिताम् । पञ्चवक्त्रां चतुर्बाहुं शिवशक्त्यात्मकां भजे ॥३॥
शिरोऽव्यान्मे रमाबीजं वाग्बीजं लोचनेऽवतात् । पराबीजं श्रुती पायात् कामबीजं च नासिकाम् ॥४॥
कामराजस्तथोष्ठौ मे शक्तिः पायान्मुखं मम । वासव्यारदनान्पातु तारं जिह्वां ममावतु ॥५॥
शक्तिः कण्ठं तथा पातु रमा स्कन्धौ ममावतु । त्र्यक्षं भ्रुवौ सदा पतु धृतिः पतु करौ मम ॥६॥
पराबीजं पातु वक्षो लक्ष्मी कुक्षिं ममावतु । शिवकूटोऽवतात्पृष्ठं ब्रह्मकूटं तु पार्श्वयोः ॥७॥
शक्तिकूटोऽवतान्नाभिं कान्तिकूटो गुदं तथा । वायुकूटोऽवताद्धस्तौ शक्तिकूटस्तु जानुतः ॥८॥
तारं जङ्घे सदा पातु पादौ शक्तिर्ममावतु । परा प्रभातकालेऽव्यात् वाङ्मध्याह्नेऽवताच्च माम् ॥९॥
सा सायं पातु सर्वत्र मोहाऽव्यान्मां निशीथके ।
पूर्वादिदिक्षु तारोऽव्यात् वह्निवायोः परावतु ॥१०॥
जलदुर्भिक्षदारिद्र्यात् शक्तिः पातु ममानिशम् । दारापुत्रधनाढ्येभ्यो गजाश्वगृहमण्डलात् ॥११॥
पातु मे कमलाबीजं कामः श्रीयोगिनीगणात् । वाग्भवं सर्वदा पातु श्रीविद्या सर्वतोऽवतु ॥१२॥
इतीदं कवचं दिव्यं महाश्रीषोडशीमयम् । मूलमन्त्रमयं गोप्यं सर्वाशापरिपूरकम् ॥१३॥
सर्वश्रेयस्करं नित्यं स्तुतं सिद्धिप्रदं कलौ । यः पठेत्साधको नित्यं धत्ते मौनव्रतं शिवे ॥१४॥
स एव शोडशीपुत्रः कामेश्वरसमप्रभुः । श्यामात्मको महाकालरूपो वैरिविमर्दनः ॥१५॥
बहुपुत्रो रमानाथो मान्त्रिकोत्तमशेखरः । इत्येतत्कथितं वर्म महाश्रीशोडशीमयम् ॥१६॥
विनानेन न सिद्धिः स्यान्ममापि परमेश्वरि । गोप्यं गुह्यतमं वर्म मूलमन्त्रमयं परम् ॥१७॥
परमार्थाभिधं वस्तु गोपयेत्स सदाशिवः ॥
इति श्रीरुद्रयमले तन्त्रे महाषोडशी कवचं सम्पूर्णम् । श्रीरस्तु ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP