संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीसनत्कुमार उवाच । ब्र...

जगन्मङ्गलकवच - श्रीसनत्कुमार उवाच । ब्र...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीसनत्कुमार उवाच । ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् । पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥१॥
ब्रह्मोवाच । श‍ृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् । श्रीकृष्णेनैव कथितं मह्यं च कृपया पुरा ॥२॥
मया दत्तं च धर्माय तेन नारायणर्षये । ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥३॥
अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् । यद्धृत्वा पठनात्सिद्धाः सिद्ध्यादि प्राप्नुवन्ति च ॥४॥
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः । ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥५॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । ओं राधेशो मे शिरः पातु कण्ठं राधेश्वरः स्वयम् ॥६॥
गोपीशश्चक्षुषी पातु तालुं च भगवान्स्वयम् । गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥७॥
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयम्प्रभुः । वक्षःस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥८॥
नाभिं पातु पद्मनाभः कङ्कालं कंससूदनः । पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥९॥
पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् । नासां च नखरं पातु नरसिंहः स्वयम्प्रभुः ॥१०॥
सर्वेश्वरश्च सर्वाङ्गं सततं मधुसूदनः । प्राच्यां पातु च रामश्च वह्नौ वंशीधरः स्वयम् ॥११॥
पातु दामोदरो दक्षे नैरृत्ये च नरोत्तमः । पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥१२॥
अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् । जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥१३॥
पातु वृन्दावनेशश्च मां भक्तं शरणागतम् । इति ते कथितं वत्स कवचं परमाद्भुतम् ॥१४॥
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् । इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥१५॥
हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् । इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥१६॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मनारदसंवादे जगन्मङ्गलकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP