संस्कृत सूची|
संस्कृत साहित्य|
कवच|
अथातः सम्प्रवक्षामि कवचं ...
श्रीधरकवचस्तोत्रम् - अथातः सम्प्रवक्षामि कवचं ...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अथातः सम्प्रवक्षामि कवचं श्रीधरं गुरुम् । यस्य स्मरणमात्रेण मुच्यते पातकैर्नराः ॥१॥
श्रीगुरुश्रीधरकवचस्तोत्रमन्त्रस्य परमात्मा ऋषिः । अनुष्टुप् छन्दः । श्रीगुरु श्रीधरो देवता । गुं बीजम् । रुं शक्तिः । श्रीधरेति कीलकम् । अथ करन्यासः - श्रीं अगुष्ठाभ्यां नमः । धं तर्जनीभ्यां नमः । रं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः । धं कनिष्ठिकाभ्यां नमः । रं करतलकरपृष्ठाभ्यां नमः । (एवं हृदयादि न्यासः) भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
अथ ध्यानं - ध्यायेद् ब्रह्मसनातनं गुरुवरं मोक्षश्रियाधारिणं ब्रह्मानन्दरसार्णवं सुखधनं भक्तेष्टकल्पद्रुमम् । अज्ञानान्धनिवारणं गुणनिधिं भक्तप्रियं सुन्दरं जीवानां तरणार्थमेव सततं ज्ञानप्रदं श्रीधरम् ॥
इति ध्यानम् । श्रीधरः पातु मूर्धानं सहस्रारेण शोभितः । भालं पातु गुरुर्देवः चन्द्रमण्डलमण्डितम् ॥१॥
अक्षौपात्वक्षयः श्रीमान् अच्युतानन्तरूपकः । भूमध्यं पातु सर्वज्ञः मोक्षानन्दस्वरूपिणः ॥२॥
ओङ्कारात्मश्रुतिः पातु श्रुतिसिद्धान्तगोचरः । नासिकां पातु विश्वात्मा विश्वातीतः परात्मनः ॥३॥
मुखं मुक्तिकरः पातु भक्तकैरवचन्द्रमाः । चिबुक चिन्मयः पातु चिदानन्दस्वयंप्रभः ॥४॥
जिव्हां वेदनिधिः पातु वेदवेदान्तगोचरः । दन्तान्पातु दानवारि धर्मरक्षणदक्षकः ॥५॥
ओष्ठं पातु परिव्राजः वैराग्यज्ञानसागरः । कपोलं श्रीकरः पातु कमलाम्बातनोभवः ॥६॥
कण्ठं दण्डधरः पातु ज्ञानदण्डसुशोभित ॥
स्कन्धौ चन्द्राननः पातु चन्द्रकोटिप्रकाशकः ॥७॥
भूमानन्दर्भुजौ पातु ब्रह्मानन्दप्रदायकः । करो कारुणिकः पातु कमण्डलुधरः प्रभुः ॥८॥
वक्षस्थलं हरिः पातु सर्वपापप्रणाशनः । हृदयं श्रीगुरुः पातु मोक्षश्रीधारणादीपः ॥९॥
उदरं वरदः पातु ब्रह्माण्डोदरव्यापकः । नाभिं पातु नराकारो नामरूपविवर्जितः ॥१०॥
गुह्यं पातु गुह्यरूपः हृदयाब्जनिवासिनः । ऊरू गुरुवरः पातु ऊहापोषविवर्जितः ॥११॥
जङ्घे ज्ञाननिधिः पातु ज्ञानमात्रैकनिर्मलः । मूलाधारं गुरुः पातु मायाऽविद्याविनाशकः ॥१२॥
पादौ पातु पूज्यपादः पापविध्वंसरूपकः । चर्म चर्माम्बरः पातु चारुकाषायभूषणः ॥१३॥
अङ्गुलीन्देशिकः पातु मोक्षपाणि गुरोत्तमः । रक्तं भक्तप्रियः पातु भक्तानुग्रहशीलकः ॥१४ मांसं मीमांसकः पातु मातृवत्सलवत्सितः । मज्जान्तु अजरः पातु जन्मकर्मनिवर्तकः ॥१५॥
अस्थीनि स्थिरधीः पातु कूटस्थमचलध्रुवः । मेदो वेदान्तिनः पातु मेधाबुद्धिप्रदीपकः ॥१६॥
शुक्र सुखकरः पातु सुखशान्तिप्रचोदकः । मनो बुद्धिमहङ्कारं रक्षयेदन्तरात्मनः ॥१७॥
कर्मेन्द्रियाणि पात्वीशः कैवल्यसुखदेश्वरः । ज्ञानेन्द्रियाण्यजः पातु अव्याजकरुणाकरः ॥१८॥
प्राणान्पातु प्रधानज्ञो पुराणपुरुषोत्तमः । सवाङ्गं पातु सर्वात्मा सच्चिदानन्दविग्रहः ॥१९॥
गृहारामधनक्षेत्रपुत्रादीन् रक्ष मे द्विभुः । भूम्यादीन् पातु धर्मज्ञः धर्मोद्धारावतारकः ॥२०॥
आत्मानन्दः सुखं पातु स्वानन्दामृततृप्तकः । दुःखापातु निजानन्दः ब्रह्मानन्दस्वरूपकः ॥१२॥
प्राच्यां पातु परब्रह्म पात्वाग्नेयां परात्मनः । याम्यां धर्मात्मकः पातु नैरृत्यां पातु विश्वजित् ॥२२॥
प्रतीच्यां पुरुषः पातु वायव्यां पातु प्राणदः । कौबेर्यां भगवान्पातु पात्वेशान्यां सदाशिवः ॥। ५३॥
ऊर्ध्वाधोदेशकः पातु त्रिमूर्तिस्वस्वरूपकः । पञ्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥२४॥
दिवा चिदम्बरः पातु रात्रौ चन्द्रनिभाननः । यक्षराक्षसभूताद्यात् पातु मां श्रीधरेश्वरः ॥२५॥
सर्वज्ञः पातु सर्वत्र सर्वमङ्गलदायकः । षड्भावविकृतिं पातु षडूर्मिरहितः परः ॥२६॥
षण्णामरीणां वर्गं च पातु ज्ञानेश्वरः पुमान् । रोगान्निरामयः पातु नित्यशुद्धनिरञ्जनः ॥२७॥
द्वन्द्वदुःखाद्विभुः पातु द्वन्द्वातीत्येकमद्वयः । व्याघ्रचोरादिभीतीश्च पातु मां सर्वरूपकः ॥२८॥
श्रीधरानुग्रहादुक्तं मया कवचमुत्तमम् । संसारामयतप्तानां शाश्वतं मोक्षदं शुभम् ॥२९॥
यः सदा धारयेत् भक्त्या स्तोत्रं कवचमुत्तमम् । न तस्य जायते क्वापि अशुभं गुर्वनुग्रहात् ॥३०॥
धर्मार्थकाममोक्षाणां इदमेवपरायणम् । पुत्रमित्रकलत्रादि सर्वसन्तोषसाधकम् ॥३१॥
त्रिसन्ध्यां पठतीयस्तु श्रद्धाभक्त्यामतन्द्रितः । सर्वरोगाः प्रणश्यन्ति सर्वाबाधाविनश्यति ॥३२॥
बहुना किमिहोक्तेन यद्यन्मनसिवर्तते । श्रीगुरोनुग्रहादेव तत्तत्सर्वं भवेदिह ॥३३॥
इति श्रीमत् परमहंस परव्राजकाचार्य श्रीसच्चिदानन्दस्वामिना विरचितं भगवान् सद्गुरु श्री श्रीधरकवचस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP